________________
देवीपुराणम्
उद्धृता पापकलिना विष्णुलोके महीयते। याबत्तत् पत्रसंख्यानि अक्षराणि विधीयते ॥७२॥ तावत्स विष्णुलोकेषु क्रीडते विविधैः सुखैः । तदा क्षिति समायातो देव्या भक्तिरतो भवेत् ॥७३॥ समस्त-भोगसंपन्ने विद्वान् स जायते कुले । विद्यादानप्रभावेण योगशास्त्रं ददेद्यदि' ॥७४॥ प्रात्मवित्तानुरुपेण यः प्रयच्छति मानवः । अशाठ्यात्फलमाप्नोति पाढ्यतुल्यं न संशयः ॥७५॥ स्त्रिया वानेन विधिना विद्यादानफलं लभेत् । भर्तुरनुज्ञया दत्तं विधवा वा समुद्दिशन् ॥७६॥ विद्याथिने सदा देयं वस्त्रमभ्यंग भोजनम् । छत्रिका उदकं दीपं यस्मात् तेन विना नहि ॥७७॥ लेखनी घटनं तीक्ष्णं मसीपादन्तु लेखनीम् । दत्त्वा तु लभते वत्स विद्यादानमनुत्तमम् ॥७॥ पुस्तकास्तरणं दत्त्वा तत्प्रमाणं सुशोभनम् । विद्यादानमवाप्नोति सूत्रबद्धन्तु वुद्धिमान् ॥७॥ यन्त्रकमासनं चैव दण्डासनमथापि वा । विद्यावाचनशीलाय दत्तं भवति राज्यदम् ॥१०॥ अञ्जनं नेत्रपादानां दत्तं विद्यापरायणे। भूमिगृहन्तु क्षेत्रन्तु सर्वराज्यफलप्रदम् ॥१॥ यस्य भूम्यां स्थितो नित्यं विद्यादानं प्रवर्तते । तस्यापि भवते स्वर्ग तत्प्रभावान्नराधिप ॥२॥ तस्मात् सर्व प्रयत्नेन विद्या देया सदा नरैः । इहैव कीत्तिमाप्नोति मृतो याति परां गतिम् ॥८३॥
इति श्री देवीपुराणे विद्यादान-महाभाग्यफलं नामैकनवतितमोऽध्याय:
१. सद। क।
२. क पुस्तके नास्ति । ३. मूर्धवज्येक क । ४. इत्याद्ये देव्यवतारे विद्यादान महाभाग्यफलम् क ग ।