________________
३३४
एकनवतितमोऽध्यायः
छन्दोलक्षणतद्वंगं सत्कवि मधुरस्वरम' । प्रणष्टं स्मरते ग्रन्थं श्रेष्ठः पुस्तकलेखकः ॥५२॥ नाप्तिसन्ततविच्छिन्नैर्न शुक्लः न च कर्कशः । नन्दि नागरकर्वणः लेखयेच्छिवपुस्तकम् ॥५३॥ प्रारम्भे पंचश्लोकानि पुनः शान्ति तु कारयेत् । रात्रौ जागरणं कुर्यात् सर्वप्रेक्षां प्रकल्पयेत् ॥५४॥ नटचारण लग्नैश्च देव्याः कथन सम्भवैः । प्रत्यूषे पूजयेल्लोकॉस्ततः सर्वान् विसर्जयेत् ॥५५॥ एकान्ते सुमनक्षेण विस्रब्धेन दिने दिने । निष्पाद्य विधिनानेन शुभळे शुभवासरे ॥५६॥ ततः पूर्वोक्तविधिना पुनः पूजां प्रकल्पयेत् । तथा विद्याविमानन्तु सप्तपंचत्रिभूमिकम् ॥५७॥ विचित्रवस्त्रशोभाढ्यं शुभलक्षणलक्षितम् । कारयेत् सर्वतोभद्र किंकिणीखवरान्वितम् ॥५८॥ दर्पणैरर्धचन्द्र श्च घण्टाचामर मण्डितम्। तस्मिन् धूपं समुत्क्षिप्य सुगन्धं चन्दनागुरुम् ॥५६॥ तुरुष्कं गुग्गुलं वत्स शर्करामधुमिश्रितम् । पूर्ववत्यूजयेत् सर्वान् कन्यास्त्री द्विजपौरवान् ॥६०॥
तथा तं पुस्तके वस्त्रे विन्यसेद् विधिपूजितम् ।
एवं कृत्वा तथा चिन्त्या मातरः प्रियतांमम ॥६१॥ यस्यैव शंके तच्छास्त्रं पुस्तके प्रविकल्पयेत् । तथा तपस्विनः पूज्याः सर्वशास्त्रार्थपारगाः ॥६२॥ शिवब्रतधरा मुख्या विष्णुधर्मपरायणाः । महता जन संघेन रथस्थं दृढवाहनः ॥६३॥ प्रधान र्वापि तं नेयं यस्य देवस्य अंशजम् । सामान्यं शिवतीर्थेषु मातराभवनेषु च ॥६४॥ तस्मिन् पूज्यं तथा कृत्वा देवदेवस्य शूलिनः । समर्पयेत्प्रणम्येशं मातरः प्रीयतामिति ॥६५॥ सदाध्ययनयुक्ताय विद्यादान-रताय च । विद्यासंग्रहयुक्ताय सर्वशास्त्रकृतश्रमे ॥६६॥ तेनैव वर्तते यस्तु तस्य तं विनिवर्तयेत् । जगद्धि ताय वै शान्ति सन्ध्यायां वाचयेत्तथा ॥६७॥ तेन तोयेन दातारं मूनि समभिषिचयेत् । शिवं वदेत्ततः सर्वमुच्चार्य जगतस्तथा ॥६८॥ एवं कृते महाशान्तिदेशस्य नगरस्य तु । जायते नात्रा सन्देह सर्वबाधाः शमन्ति च ॥६६॥ अनेन विधिना यस्तु विद्यादानं प्रयच्छति । स भवेत्सर्वलोकानां दर्शनादघनाशन ॥७०॥ मृतोऽपि गच्छते स्थानं ब्रह्मविष्णुनमस्कृतम् । सप्त पूर्वापरान्वंशान् प्रात्मनः सप्त एव च ॥७१॥
१. सहकारिं मवृक्षरम् क । ३. नटचारण नत्तैश्च क। ५. युवा नः ख ।
२. श्लक्षः क ॥ ४. प्रियतां. न मम क । ६. पंक्तिरियं क पुस्तके नास्ति ।