________________
देवीपुराणम्
गुरु शुश्रूषया विद्या पुष्कलेन धनेन वा। विद्यया लभते विद्या चतुर्थी नोपलभ्यते ॥३४॥
__यः कृत्स्नां तु महीं दद्यान्मेरुतुल्यं तु काञ्चनम् ।
स यद्यन्यायतः पृच्छेन्न तस्योपदिशेत् क्वचित् ॥३५॥ एवं विधो महाभाग विद्यायामुपवर्णितः । संक्षेपान्न च विस्तारात् तस्य दानफलं शृण ॥३६॥ श्रीताड पत्रजे संघे समे पत्रसुसंचिते । विचित्र पट्टिकापार्वे चर्मणां संपुटीकृते ॥३७॥ रक्तन अथ कृष्णेन मृदुना वधितेन च। दृढसूत्रसुबद्धन एवं विध कृतेन च ॥३८॥ यस्तु द्वादशसाहस्री संहितामुपलेखयेत् । ददाति चाभियुक्ताय स याति परमां गतिम् ॥३६॥ पूर्वोत्तरप्लवे देशे सर्वबाधाविजिते । गोमयेन शुभे लिप्ते' कुर्यान्मंडलक बुधः ॥४०॥ चतुर्हस्तंप्रमाणेन शुभं तु चतुरस्रकम् । तस्य मध्ये लिखेत् पद्म सितरक्तरजादिभिः ॥४१॥ सर्वत्कशुभैः पुष्पभूषयेत्सर्वतोदिशम् । वितानं दापयेन्मूनि शुभचित्रविचित्रितम् ॥४२॥ पार्श्वतः सित वस्त्रैश्च सम्यक्शोभां प्रकल्पयेत् । कन्दुफैरूवंचन्द्र श्च दर्पणैश्चामलै स्तथा ॥४३॥ घण्टाकिंकिणी शब्दश्च सर्वत्र उपकल्पयेत् । तस्य मध्ये लिखेद् यंत्रं नागदन्तमयं शुभम् ॥४४॥ अधः कस्मिन् विवर्धन्तु पार्श्वतो हरिदन्तिभिः । शोभितं दृढबन्धेन बद्धं सूत्रेण वुद्धिमान् ॥४५॥
तस्योवं विन्यसेत् देव्याः पुस्तकं लिखितं शुभम् ।
आलेख्यमपि तत्रैव पूजयेद् विधिना ततः ॥४६॥ निरुदकैस्तथा पुष्पैः कृमिकीटविजितः । चन्दनेन सदर्भण भस्मना चावधूनयेत् ॥४७॥ धूपं च गुग्गुलं देयं तुरुष्कागुरुमिश्रितम् । दीपमालां तथा चाने नैवेद्य विविधं पुनः ॥४८॥ खाद्य पेयान्वितं लेह्य चोष्यं वापि निवेदयेत् । पूजयेछिशिपालाँस्तु लोकपालान् यथाक्रमम् ॥४६॥ कन्या स्त्रियस्तु संपूज्य मातराः कल्पयेच्च ताः । पुस्तकं देवदेवीञ्च विप्राणां दक्षिणा तथा ॥५०॥ स्वशक्त्या चैव दातव्या नृपं पौरांश्च पूजयेत् । तथा सम्पूजयेद्वत्स लेखक शास्त्रपारगम् ॥५१॥
१. पंक्तिरियं क पुस्तके नासति । २. श्री ताडीपत्र जैनाञ्च ख। ४. रगितेन च ख ग। ६. चामरैस्तथा क। ८. स्वापमानास्तथा ग ।
३. कमिका पार्वे क ग । ५. शुभेनैव क ग। ७. विद्या ख। ६. धर्म मानकम् क।