________________
३३२
एकनवतितमोऽध्यायः
विद्याम्भो वर्त्तते लोको धर्माधर्मं च विन्दते । तस्माद्विद्या सदा देया दृष्टादृष्टफलार्थिभिः ॥१६॥ महीदानं च गोदानं हेमवस्त्रतिला जलम् । धान्यदीपान्नदानं च महादानानि दानसु ॥१७॥ इह प्रक्षीयते दानं दीपदानं' नराधिप । विद्या बृद्धिमवाप्नोति दीयमानापि नित्यशः ॥ १८ ॥ कोच्चारेण भूदानं दत्तं भवति भूमिप । न हि तद्विद्यते भूय देहपातादनन्तरम् ॥१६॥ विद्यादानं ददवत्स एकधा दशधा भवेत् । शतधा कोटिधा गच्छेदिहापि विद्यापारगः ॥२०॥ राज्ञा तस्कर दायादेर्जल वह्नि सरीसृपैः । सर्वदानानि क्रियन्ते विद्या केनापि न क्रियते ॥ २१ ॥ विद्यादानेन दानानि नहि तुल्यानि वुद्धिमान् । विद्या एव परं मन्ये यत्तत् पदमनुत्तमम् ॥२२॥ शृण्वन्नुत्पद्यते भक्तिर्भक्त्या गुरुमुपासते । स च विद्यागमान् वक्ति विद्या ग्रन्थाश्रिता नृप ॥ २३ ॥ विद्याविवेकवोघेन शुभाशुभविचारिणः । विन्दते सर्वकामाप्ति तस्माद्विद्या परागता ॥ २४ ॥ विद्यादानात्परं दानं न भूतं न भविष्यति । येन दत्तेन चाप्नोति शिवं परमकारणम् ॥२५॥ विद्याविचारतत्त्वज्ञो राज्ञः सन्मार्गगामिनः ।
भुञ्जतेऽपि हि भोगानि गच्छन्ति परमां गतिम् ॥२६॥
त्या अपियां प्राप्य क्रीडन्ते ग्रहराक्षसैः । सा विद्या केन मीयेत यस्याः सर्पाः न सर्पिणः ॥ २७॥ वेन कुञ्जरं हन्ति सर्षपेन तुरंगमम् । मक्षिकापदमात्रस्य विषस्य विषमा गतिः ॥ २८ ॥ एवंविधं विषं वत्स विद्यामन्त्रप्रभावतः । जीर्यते भक्षितं पुम्भिस्तस्माद्विद्या परापरा ॥ २६ ॥ नहि विद्या कुलं जाति रूपं पौरुषपात्रताम् । एषा ते सर्व लोकानां पठिता उपकारिका ॥३०॥ भूतैर्ग्रहीता विध्वस्ता दष्टा वा महापन्नगैः । विद्या उत्थापयेद्वत्स अन्त्यजस्यापि संस्थिता ॥३१॥ सर्वेषामेव वृद्धानां विद्या वृद्धे हि मान्यता । वयोवृद्धो हि शूद्राणां विशानां धनधान्यतः ।
क्षत्रियाणां तु वीर्येण विप्राणां शास्त्रपारगः ॥ ३२॥
वित्तं वन्धुर्वयश्चैव तपो विद्या यथाक्रमम् । पूजनीया हि सर्वेषां विद्या तेषां गरीयसी ॥३३॥
१. दीयमान क ।
३. तत्त्वं शारद्धि सन्मार्छ कारिणः क । ४. हृत्स्थिता क ।
२. अन्नमयम् क