________________
एकनवतितमोऽध्यायः ।
अगस्त्य उवाच । ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यदि वा स्त्रियः । पूजयेन्मातरो भक्त्या स सवाल्लभतेप्सितान्॥१॥ मृण्मयी प्रतिमां कृत्वा विन्ध्ये वा यस्तु पूजयेत् । प्रात्मवितानुसारेण स लभेन्मौक्तिकं फलम् ॥२॥ एकां वा यदि वा देवी देवं वा वल्लकोकरम् । गजाननयुतं स्कन्दं सर्वकामफलप्रदम् ॥३॥ ब्राह्मी च वैष्णवी देवी कोमारी शक्रधर्मजाम् । पूज्यमानो अवाप्नोति ऐहिकं फलमुत्तमम् ॥४॥ वृषारूढां महादेवी त्रिनेत्रां शूलधारिणीम् । पूज्यमानो लभेद्वत्स यद्यत्फलमीप्सितम् ॥५॥ यां पूज्य पूज्यतां यान्ति सर्वलोकस्य विद्यते । तां पूजय सदा मातृ ब्रह्मविष्णु नमस्कृताम् ॥६॥ ब्रह्मापि पूजयते यां विष्णुर्देवस्त्रिलोचनः । तां पूजय सदा देवी सुरशत्रुनिवहिणीम् ॥७॥ देव्यावतार-शास्त्राणि रुद्रविष्णुभवानि च । वाचयन् चिन्तयन् वत्स ईप्सितं लभते फलम् ॥८॥ यस्तु देव्या गृहे नित्यं विद्यादानं प्रवर्त्तयेत् । स भवेत्सर्वलोकानां पूज्यः पूजापदं ब्रजेत् ॥६॥ मातरा पुरतो यस्तु वसोर्धारां प्रपातयेत् । पृथिव्यामेकराड् वत्स इह चैव भवेन्नरः ॥१०॥ छत्र वाथ प्रपां वह्नि प्रावृड्ग्रीष्महिमागमे । कारयेन्मातृपुरतः सर्वकामानवाप्नुयात् ॥११॥ विद्यादानं प्रवक्ष्यामि येन तुष्यन्ति मातरः । लिख्यते येन विधिना दीयते तत् शृणुस्व नः ॥१२॥ सिद्धान्त मोक्षशास्त्राणि वेदान् स्वर्गादिसाधकान् । तदंगानीतिहासानि देया धर्मविवृद्धये ॥१३॥ गारुडं बालतन्त्रं च भूततन्त्राणि भैरवम् । शास्त्राणि पठनाद्दानात् मातरः फलदा नृणाम् ॥१४॥
ज्योतिषं वैद्यशास्त्राणि कला काव्यं शुभागमान् । दानादारोग्यमाप्नोति गान्धर्व फलते पदम् ॥१५॥
१. मौक्तिकं फलम् क ग । ३. पद्यमिदं क पुस्तके नास्ति ।
२. एकप्रत्पूषसि प्राप्ते वा ग ४. सुतागमांन् क।