________________
३३०
नवतितमोऽध्यायः
मधूकपाथविल्वाम्र' अशोकतिन्दुकशिशपाः । शैलपार्थिव हेमोत्थास्तावद्धातु शुभप्रदाः ॥१५॥ तद्विदैर्घटिता वत्स तद्वेदिभिः प्रतिष्ठिताः । ताश्चोत्तराननाः स्थाप्याः सर्वकामफलेप्सुभिः ॥१६॥ सर्वशैलेष्टकाष्टोत्थं गृहं वास्तुविभाजितम् । वलभी मण्डपं वत्स मठं वा स्थापने शुभम् ॥१७॥ गन्धं नैवेद्य धूपेन वलिमाल्यविभूषणैः । अधिवासन पूर्वास्तु स्थापनीया यथा क्रमम् ॥१८॥ वेदध्वनि महाघोषैः स्त्रीसंगीतोपशोभितम् । कर्त्तव्यं स्थापनं तेषां वहुवादित्रनादितम् ॥१६॥ रात्री जागरणं तत्र देव्या पूजार्थवद्वये । पाख्यानर्मातरा शास्त्रैः रुद्रकीडाकरः शुभैः ॥२०॥ दशावतारपूर्वीस्तु कथा वाच्या यथाक्रमम् । एवं प्रत्यूषसि सम्प्राप्ते बलि संध्यासु दापयेत् ॥२१॥ यथा मातृगणं पूज्यं देवभैरवरूपिणम् । स्त्रीसंघाः कन्यका विप्रा पूजनीयाः स्वशक्तिना ॥२२॥ मठश्च कारयेत्तत्र देव्याः पूजार्थवृद्धये । सर्वलक्षणसंपूर्ण सर्वोपकरणान्वितम् ॥२३॥ वापीकूपं तडागं वा वाटिकावन शोभितम् । वेश्यातूर्योपसम्पन्नं ध्वजछत्र विभूषितम् ॥२४॥ घण्टादर्पणदीपाद्य देयं द्रव्यानुरूपतः । घटिकायन्त्रयष्ट्यादि दिनसंख्यार्थसिद्धये ॥२५॥ कर्तव्यानेकमेकं वा यथाकालपरिच्छदे । अनेन विधिना वत्स मातराः स्थापयेन्नरः ॥२६॥
इहैव पूजनीयास्तु मृतो याति परां गतिम् । ये तस्य दासकर्माणि दास्यो वेश्यादिका गृहे ।
तेऽपि यान्ति दिवं वत्स किं पुनस्तस्य वान्धवाः ॥२७॥ इति श्री देवीपुराणे मातृप्रतिष्ठा महाभाग्यं नाम नवतितमोऽध्यायः ।
२. स्तवे ऋक्ष क।
१. मधूकपार्थविन्नाम्र क । ३. तथा कार्या यथा क्रमम् ख । स्थापनीयास्तु तद्विधैः ग । ४. कर्त्तव्यं शुभमंगल ग । ६. इहात्र क ग। ८. इत्यादये मातराप्रतिष्ठामहाभाग्यम् क म ।
५. पंक्तिद्वयं खपुस्तके नास्ति। ७. ख शेषे तस्य स्वकर्मान्ते ख।