SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ नवतितमोऽध्यायः शक्र उवाच । यद्यवं सर्वदेवानां परमा मातरा विभो । तदहं श्रोतुमिच्छामि तेषाञ्च विधिपूजनम् ॥ १ ॥ कानि पुष्पाणि दानानि ब्रतानि नियमास्तथा । येन सम्पूजिता देव्यः क्षिप्रं सिद्धि' फलप्रदाः ॥२॥ लोकानामुपकार। श्रस्माकं च विशेषतः । एतदेव यथादेशं कथय नः प्रसादतः ॥३॥ एवं पूर्व नृपश्रेष्ठ विष्णुः शक्र ेण पृष्टवान् । तत् समाज्ञाय शक्रस्य ब्रह्मणा कथितं यथा ॥४॥ तथाहं ते प्रवक्ष्यामि विद्यातत्त्वार्थपारग । अगस्त्य उवाच । पुरे वा यदि वा ग्रामे नगरे खेटकेऽपि वा ॥५॥ फलार्थिभिः पूजनीयास्तु मातरः । एकलिंगे नदीतीरे द्रमर्शले वनेऽपि वा । ॥६॥ पूजिताः सर्वविद्यानां साधनाय फलप्रदाः । गृहे चत्वरे हट्टान्ते पूजिता धनपुत्रदाः ॥७॥ नगरद्वार पूर्वाद्या वृद्धिराज्य सुखार्थदाः । गंगातीरेऽथवा विन्ध्ये सर्वकामफलप्रदाः ॥८॥ वेद पर्वत श्रीशैले किष्किन्धा' पर्वतादिषु । मोक्षदा दिवदा वत्स निष्कामाः फलवाञ्छिताः ॥ ॥ स्थानः समाख्याता आशु फलसमीहकाः । कालान्तरफला देव्यः सर्वाः सर्वत्रपूजिताः ॥ १० ॥ कालाग्निशिवपर्यन्ता येषां व्याप्तिमहात्मनाम् । ता यत्र यत्र पूज्यन्ते तत्र व फलदायकाः ॥११॥ सर्वदेवता देव्यः सर्वदेवप्रसूतयः । शिवाद्या याभिर्जायन्ते कस्ताः न प्रतिपूजयेत् ॥ १२ ॥ या सूते प्रथमं शम्भुब्रह्मविष्णुविवस्वतः । श्रादित्यवरुरणचन्द्रार्कः कस्तां न प्रतिपूजयेत् ॥ १३॥ तासाञ्च शुभऋक्षा दारुमानीय बुद्धिमान् । मणिमौक्तिकवैडूर्य काष्ठचन्दन चन्दनाः ॥१४॥ १. शीघ्रफलप्रदाः ग । २. अर्बुदादिषु क ग । ३. अश्रुफल ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy