________________
एकोननवतितमोऽध्यायः
पूजयेद् भोजयेत् कन्याः शास्त्रदृष्टेन कर्मणा । वस्त्रालंकारकाञ्चयादि कटकाः कटिसूत्रकाः ॥ १४ ॥ दातव्या श्रात्मनः शक्त्या देवीभक्तं : सुखाथिभिः । अथवा नव रात्राणि सप्तपंचत्रिरेकधा ॥ १५॥ एकभक्तेन नक्तेन श्रयाचन् उपवासनैः । क्षपयेदाश्विने शक्र यावच्छुक्ला तु अष्टमी ॥ १६ ॥ पूजयेन्मंगला तत्र मण्डले विधिकल्पिते । सर्व सद्भावसम्पन्ने सर्वाविधिविधायिके ॥१७॥ सर्वकामप्रदे शक्र सर्वकामानवाप्नुयात् ।अर्थकामस्य श्रर्थं तु राज्यकामस्य राज्यदम् ॥ १८ ॥ पुत्र प्रारोग्यदं वत्स महापातकनाशनम् । सर्ववरर्णैश्च कर्त्तव्यं पुंस्त्रीबाल नपुंसकैः ॥ १६ ॥ सर्वगा सर्वदा देवीं यस्माच्छक्र महाफला । अनया विधिना वत्स ददते प्रविचारणात् ॥ २० ॥ सर्वेषां व्रतयोनीनां सर्वब्रतमहाफलम् । नवम्याख्यं महापुण्यं तव सम्यक् प्रकाशितम् ॥२१॥ नाख्येयं भक्तिहीनस्य मूर्खस्याहेतु वादिने । देयं भक्ताय शान्ताय शिवविष्णुरताय च ॥२२॥ देवीभक्तः सदाचारः कन्यापूजारतो नरः । इहैव सर्वकामानि लभते प्रविचारणात् ॥२३॥ नाधयो व्याधयस्तस्य न च शत्रुभयं भवेत् । सङ्गरे विजयो नित्यं महानेकोऽपि जायते ॥ २४॥ श्रवणात्सर्वकामानि लभते अविचारणात् ॥ २५॥
इति श्री देवीपुराणे अष्टमी नवमी व्रतं नामैकोननवतितमोऽध्यायः
३२८
१. योगानां ख क ।
३. अष्टमी नवमी व्रतम क । मंगला अष्टमी व्रतम् ग ।
१. भक्तिमुक्तिहीनस्य क ।
॥