SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ एकोननवतितमोऽध्यायः । शक्र उवाच । येनोपायेन सर्वेषां देवि सर्वफलप्रदा । तदहं श्रोतुमिच्छामि नवम्यामाश्रितं' फलम् ॥१॥ . ब्रह्मोवाच । .. अाश्विने वाथ माघ च चैत्र वा श्रावणेऽपि वा । कृष्णादारभ्य कर्त्तव्यं व्रतं शुक्लावधि हरे ॥२॥ अष्टमी चाश्विने कृष्णा एकभक्त कारयेत् । मंगलारूपिणी देवीमथवा रुरूघातिनीम् ॥३॥ पूजयेन्नवभेदेन' गंधमाल्यनिवेदनः । कन्यकाः भोजयेद्वत्स देवीभक्तांश्च मानवान् ॥४॥ नक्त ने नवमी कार्यां अयाचन्दशमी क्षपेत् । उपवासमेकादश्यां पुनरेवं विधिर्भवेत् ॥५॥ यावच्छुक्लाष्टमी शक्र उपवास्या विधानतः । स्नानहोमजपं पूजा कन्याभोजन्तु प्रत्यहम् ॥६॥ कर्तव्यं द्विजद्वन्द्व न देव्या भक्तिरतेन च। नवम्यां पशुघातन्तु महिषादि प्रजाविकम् ॥७॥ कर्तव्यं भूतवेताल न च आत्मनः काम्यया । कन्याः अलंकृतास्तत्र द्विजाः देव्याः परायणाः ॥८॥ नटनर्तकप्रेक्षाश्च रथयात्रां सजागराम् । दानं देयं यथा शक्त्या सर्वेषामपि भक्तिना ॥६॥ महाभैरवरूपाणां अस्थिमालाधराः नराः । पूजनीया विशेषेण वस्त्रशोभाधरादिषु ॥१०॥ कर्तव्या सर्वकामार्थ प्रापणाय सुरोत्तम । अनेन विधिना शक्र यदृच्छं लभते फलम् ॥११॥ मंगला भैरवी दुर्गा वाराही त्रिदशेश्वरी। उमा हैमवती कन्या कपाली कैटभेश्वरी ॥१२॥ कालो ब्राह्मी माहेशी च कौमारी मधुसूदनी । वाराही वासवी चर्चा नामान्यन्यानि जपेन्नरः ॥१३॥ १. वद आत्माश्रितं फलं ख । ३. जिततत्त्वेन क । द्विजवृन्देण ग। ५. असंस्कृतास्तत्र क। २. नरमेदेन क । ४. नवधा क ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy