________________
अष्टाशीतितमोऽध्यायः ।
भगवानुवाच ।
'२
देवः शिवागमै ' स्त्वेताः पूजिताश्च मुमुक्षुभिः । गारुडे भूततंत्रे च कालतन्त्र च पूजिताः ॥ १ ॥ साध्यन्ते सर्वमन्त्राणि चिन्तामरिण समा शिवा । पाषण्डिभिर्भविष्यैस्तु बौद्धगारुडवादिभिः ॥२॥ स्वधर्मनिरतैर्वत्स स्वेन ध्यानेन पूजिताः । येन येन हि भावेन पूजयन्ति मनीषिणः ॥३॥ तेन तेन फलं दद्युः द्विजानामन्त्यजामपि । विवाह मंगलैः कार्येर्देवगन्धर्व किन्नरैः ॥४॥ मर्त्यलोकेऽपि पूज्यन्ते दृष्टादृष्टफलार्थिभिः । यत्किचित्वाङ् मयं लोके दृश्यादृश्यं चराचरम् ||५|| तत्सर्वं शक्तिभिर्ज्ञातं शक्र नास्त्यत्र संशयः । देवतानां पितॄणां च मनुष्याणां च वासव ॥ ६ ॥ योन्यस्त्वताः समाख्याताः शिवेनानन्तरूपिणा । उत्पत्तिस्थितिसंहार - बन्धमोक्षविचेष्टितम् ॥७॥ स्वर्गापवर्गनिरयं सर्वमस्मात् प्रवर्त्तते । श्रनन्तमादितः कृत्वा यावत्पादाक्षगोचरम् ॥८॥ शक्तिभिस्तु ततः सर्वं घृतेन तु पयो यथा । तस्मात् त्वमपि देवेन्द्र कर्मयज्ञेन पूजय ॥ ॥ मरूक्म - प्रबालोत्थ चित्रकाष्ठे शैलजाः । पूजिता विधिना वत्स सर्वकाम फलप्रदाः ॥१०॥ यो देवं मातरोत्पत्ति शिवशक्तिविजृम्भितम् । रुरुदेत्येन्द्र - मथनं भक्त्या संकीर्त्तयिष्यति ॥ ११ ॥ शृणुयादयः पठेद्वापि तस्य पुण्यफलं शृणु । सर्ववाधाविनिर्मुक्त सर्वकामसमन्वितः ॥ १२ ॥ इहैव जायते शक्र अन्ते च परमं पदम् । श्रवणाच्च श्रवाप्नोति सर्वदानब्रतादिकम् ॥१३॥ इति श्री देवीपुराणे रुरूवध समाप्ति र्नामाष्टाशीतितमोऽध्याय
१. समागमः ग ।
३. सर्व कार्यारिण क ख ।
५. यावत्स्यादक्षिगोचरम् क।
进
॥
२. बालतन्त्रे ग ।
४. यत्किचिदुभयं क ।
६. इतिरुरूवधः समाप्तः क ग ।