________________
द्विनवतितमोऽध्यायः ।
शक्र उवाच । त्वमेव परमो देव वेदवेदान्तपूजितः । त्वयापि कथिता देवी पूजिता शिवविष्णुना ॥१॥ सा च सर्वगता शान्ता शिवकालाग्निव्यापका । यत्र यत्र च पूज्येत तत्र तत्र फलप्रदा ॥२॥ कृतं दिवससामर्थ्य त्रेतायां यज्ञ कर्मणा । द्वापरे यजनाध्ययनात् सिध्यन्ते ह्यविचारणात् ॥३॥ एवं पूर्व त्वया नाथ सूचितं न प्रकाशितम् । कला घोरे महाप्राप्ते युगे च तमसावृते ॥४॥ विष्णोः कृष्णत्वमापन्न कथं देवी वरप्रदा। कस्मिन् स्थाने स्थिता नित्यं द्वीपे वा पृथिवीतले ॥५॥ एतदाख्याहि मे तात प्रसीद सुरसत्तम ॥६॥
ब्रह्मोवाच । साधु साधु महाप्राज्ञ निगूढार्थ विवेचक । सन्देहविनिवृत्यर्थं पृष्ठक शुभमिच्छता ॥७॥ यथैव भवता पृष्टं देवी सर्वत्र गा शिवा । यथा च नात्र संदेहस्तथैव कथयामि ते ॥८॥
या सा घोरवधार्थाय-सर्व-देव नमस्कृता । विन्ध्याद्रौ संस्थिता देवी सा च पूज्या यथाविधिः ॥६॥ मन्त्रद्रव्य क्रियाध्यानान्महासिद्धिकरा नृणाम् । .
स्त्री बाल विकलान्धानां सा भवेत् सूक्ष्मसिद्धिदा' ॥१०॥ सर्वकामप्रदा लोके सर्वेषामपि वासव । हिमवत्यचले नन्दा देवी प्रत्यक्षसिद्धिदा ॥११॥ सा च संस्मरणात् ध्यानात् यात्रानियमकर्मणि । सिध्यते येन विधिना शिवेन कथिता पुरा ॥१२॥ देव्यायां मम गोविन्द ऋषीणां परिपृच्छताम् । तथा ते कथयिष्यामि शृणु तत्त्वेन वासव ॥१३॥
१. कृतादि तपसामफर्न व ग ।
२. विकलांगानामभाबात् क्षद्र सिद्धिदा क ।