SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ षडशीतितमोऽध्यायः। श्रीभगवान् उवाच । ततो निजित्य तैः सर्वैः शिवाज्ञाचार वतिभिः । सवाजिवारणरथाः कवचिनः सोच्चरंहसा ॥१॥ ततः सा दानवी सेना भक्षिता तैर्महावलैः। शक्तिभिस्तु अमोघाभिः शिवतेजोपवृहितैः ॥२॥ ततोऽसौ दानवेन्द्रस्तु प्रविष्टो वसुधातलम् । कांचनी च पुरी यत्र चित्रा चित्रवतीति च ॥३॥ तत्र हाटकरूद्रस्तु विद्य विद्यश्वरैर्वृतः । तत्रापि सा महाभागा वृता पातालमातरैः ॥४॥ मण्डलीकृतसारंग कर्णान्तागतपत्रिण । ज्याघोषे घोरमुखरा तर्जयन्ती पुरःस्थिता ॥५॥ दृष्ट्वा तालप्रविष्टोऽसौ यत्र शंकर चचितम् । अथर्वरुद्रसंयुक्ता वृता सा योगमातरः ॥६॥ दृष्ट्वा घोरेण रूपेण प्रनष्टस्तु शिलोच्चये । यत्र रूप्यमयी भूमिः पुरी चन्द्रमा स्मृता ॥७॥ कपालरुद्रसहिता वृत्ता सा ह्यग्नि मातृभिः ।। दृष्ट्वा घोरेण सौभग्नो गतः शीघ्र गभस्तिमान् ॥८॥ पुरी सूर्यवती नाम ताम्राभा भाति सर्वतः । तत्रापि पश्यते देवी वृता किम्पुरुषादिभिः ॥६॥ कपालमातरैर्युक्तां खट्वांगकरभासुराम् । तां दृष्ट्वा वेपमानस्तु गतः श्रीतालसंज्ञकम् ॥१०॥ यत्र विद्य न्मती नाम पुरी चैत्रमयी शुभा। पिंगरुद्रेवता देवी तथा चोत्पलमातरः ॥११॥ तर्जयन्ती महाक्रूरा तां दृष्ट्वा तु अधोगतः । यत्र सा स्फाटिका भूमिः सुतलं नाम भूतलम् ॥१२॥ २. सोतुरांगदा क। ४. पंक्ति त्रयं ख पुस्तके नास्ति । . १. भगवानुवाच क ग । ३. तले क ग । ५. तत्राप्य ग ६. चैत्यमयी क । ७. तथा चापि न मातरः घ । .
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy