________________
देवीपुराणम्
पुरी कान्तिमती भीतः प्रनष्टस्त्वसुराधिपः । तत्रापि शक्र देवेशी गणरुद्रः समावृता ॥१३॥ भगिन्या मातृसहिता खड्गपाशांकुशोद्यताः ।
वीर्य शौर्योज्झिता त्वेषां गतस्त्वाभास संज्ञिताम् ॥१४॥
पुरी भस्मवती यत्र तत्रोष्म समन्विता । ऊच्छुष्म मातरंर्युक्ता तत्र सा पुरतः स्थिता ॥ १५ ॥ क्रूरालापा महाक्रूरा तर्ज्जयित्वाब्रवीदिदम् । तिष्ठ तिष्ठ महामूढ त्वयि क्रुद्धः पिनाकधृक् ॥१६॥ कुत्र वा गच्छसे पाप यत्र नाहं कुतोऽत्र तत्' । कारणानल मध्यस्थं ममेदं वक्त्रगं जगत् ॥१७॥ एतच्छ्रुत्वा वचोत्युग्रं पुनर्योद्ध समुद्यता । जीवितुं भयमुत्सृज्य शरासनकरः शरैः ॥ १८ ॥ ज्याघातघनघोषेण वर्षयन्नशनिरिव । प्रचक्रिरे महामाया मायां कृत्वा सहस्रशः ॥ १६ ॥ चतुरंगं रचित्वा तु रथतुरगगजाकुलम् । विभिन्नकोटरैर्दन्ति रुक्मपुंरवैश्च पत्रिभिः ३ ॥२०॥ चंडघातशरैर्भेद्य पातयन् मातृमातरा । घण्टा डमरुशब्देन वाहिनी वधिरीकृता ॥ २१॥ पाटवं जनमुख्येन विद्यत्कोटिनिभेक्षणी । निहत्य तस्य मायान्तु शस्त्रछेदं प्रचक्रिरे ॥२२॥ वारं प्रतिवीर्यैश्च छिन्दयित्वा शरासनम् । कृत्वा सर्वास्त्ररहितं दानवेन्द्र ं सुगवितम् ॥ २३ ॥ हतवीर्यं हतशौर्यं हिंसयित्वा महेश्वरी | आकृष्टान्ती सरक्तौघं मेदमज्जास्थिमांसवम् ॥२४॥
तस्य चर्म च मुण्डं च गृहीत्वा तु विनिर्गता । समवायं ततः कृत्वा प्रत्यंगिरमभाषत ॥ २५॥
तासामिच्छास्तु विज्ञाय भीताः सर्वे दिवौकसः । ऊचु किं कुर्म हे रुद्र घोररूपा मरीचयः ॥ २६ ॥ ततो ब्रह्मादयो देवाः शिवेनोक्ताः पुरन्दर । मन्देव मन्दमानाया स्वस्वामिनि पुरोगता ॥ २७ ॥ दूरं भवधवं संक्षिप्तं बभूवुः सुरपुंगवाः । ब्रह्मा प्रोवाच शक्त्यात्मा स्तवं मे दद अम्बिके ||२८|| एवं शिवो वयं शक्र प्रार्थयित्वा पुरस्थिताः । शम्भुनापि तथा गृह्य सप्तस्वरविभूषितम् ॥ २६ ॥ वीणावाद्यं समारब्धं सारावित सकौशिकम् । ग्राम- मूर्च्छन- तानार्थैः कृत्स्नं जगदपूरयत् ॥३०॥ नृत्यते परमो देवो अस्माकं सह वासव । मया गीतं समारब्धं स्तवं ब्रह्मादिभिस्तथा ॥ ३१ ॥
१. कृत्वा वां जसे पाप यत्र नादं गतौ व्रतत् क ।
२. अथाकुलम् ख ।
४. महामायीति क
६. प्रत्यंगिरसः मातरः क ।
३२१
३. क पुस्तके पद्यमिदम् नास्ति ।
५. गतासौय्यं ग । सुतशोयं क ।
७. स्थलं क स्तनं ग ।