________________
देवीपुराणम्
३१६
वसुनन्द सुभृत्कायं कृषिकर्मञ्च सञ्चराम् । भूपृष्ठं प्लावितं सर्व तेषां कायसमुद्भवः ॥६७॥ अनेकाकाररूपैस्तु दिक्पालानान्तु मूर्तयः । तस्मिन् जाता महाघोराः संहारार्थ शिवेच्छया ॥६५॥ सुग्रीवं कुम्भकर्णञ्च नन्दिञ्चैव महावलम् । प्राग्निगन्तानि भाषन्तो दिक्पालास्त्वरितागताः ॥६॥ तथा दृष्ट्वा तु ते शक्र पूर्व' देवैः पराजिताः । पिंगलाख्यं महाघोरं नंदिकं च गजाननम् ॥७॥ भृकुटीमुखं च चत्वारो दक्षिणेन समागता । पूजिता धर्मराजेन सर्वान्तकनिवारणाः ॥७१॥ करालं तालजंघं च कैलाशं च महावलम् । गोकर्णसहिताः पाला शोणितासवलोलुपाः ॥७२॥ पश्चिमां दिशमुद्घोष्य आगताः कोटिभिवताः । ते दृष्ट्वा मेघयानेन पूजिता संस्तुताः सदा ॥७३॥ दंतरं लोहजंघश्च ऊर्ध्वकेशं महामुखम् । उत्तरेणागताः क्रूरा मांसशोणितभोजनाः ॥७४॥ सोमेन पूजितः शक्र प्रात्मरक्षार्थिना सदा। त्रिलोचनाश्चतुर्वक्त्रा अग्निर्ब लिततेजसः ॥७॥ खट्वांगशूलहस्तास्तु कपालकृत शेखराः । आमर्दकाग्निकालाद्या एकपादादयस्तथा ॥७६॥ एवम्भूतगणाश्चान्ये देवीनां परिचारिकाः । चतुर्विंशतियोगिन्यः चतुर्दिा उपस्थिताः ॥७७॥ एवं कोटिविभागश्च किंकरीभिः समावृताः । किंकरश्च महाघोरैः रौद्ररूपः स्वतेजसः ॥७॥ एवंविधस्तदा शक्र रुद्रचित्तोद्भव हैः । प्राब्रह्मस्तम्ब पर्यन्तं व्याप्तं तैः सचराचरम् ॥७॥ यथा स्वच्छन्दरूपेण भैरवेण महात्मना । देवानामुपकाराय असुराणां वधाय च ॥०॥ तथा संक्षेपतः शक्र मया च तव कीतितम् । विस्तरं ब्रह्मणस्येदं गुहेन कथितं पुरा ॥१॥
शिवेन शक्र देव्यायाः स्कन्देन अवतारितम् ॥८२॥ इति श्री देवीपुराणे रुरुवधे ग्रहोत्पत्तिर्नाम पंचाशीतितमोऽध्यायः ।'
१. पुनर ग। .
२. पाना क ग। ३. मालाद्या ख ।
४. शक्ति ख । ५. पाद्ये देब्यवतारे रुरूवधे ग्रहोत्पत्तिः क ग ।