________________
३१८
पञ्चाशीतितमोऽध्यायः
क्वचिद् वृषप्रहारैस्तु विह्वलमवनीगतम् । क्वचिच्छिवाभिर्भक्ष्यान्तः ज्वालालङ कृतदेहजम् ॥४८॥ क्वचिद् दुर्गन्तु नृणां मन्त्रमालाविभूषितम् । इत्थम्भूतं बलं तेषां शक्तिभिः कुलितायुधम्' ॥४६॥ सम्वम्बुिजपत्राढ्या कृत्वा बीणां सुवर्चसाम् । पिनाकाकारमार्ग च भ्रू लतां भूललाटगाम् ॥५०॥ कुन्तकर्पूरयष्टीभि भुशुंडीहलमुद्गरैः । वत्सदन्तैः कुठारश्च झषदंशः सिताम्भरैः ॥५१॥ शलाकैः शिलीमुरवैः शूल पट्टिशैमूसलैहलैः । वसुनंदैः करालश्च विकरालः सखेटकैः ॥५२॥ वारणैविविधाकारैः पाशांकुशमृगाननैः । नाराचै कनकदण्डैश्च कार्मुकैवृक्षपर्वतैः ॥५३॥ शिलालोष्टः कपालश्च वज्रशक्ति गदाकुलः । खट्वांगपरशुपट्टे श्च क्रकचैश्चक्रसर्वगः ॥५४॥ शस्त्रसंहातसंजातं शिखिध्वजसमाकुलम् । प्रातपत्रानि दीव्यन्ति सायुधस्पंदनानि च ॥५५॥ क्षयानलेव दृश्यन्ते प्रकीर्णस्तु युगक्षये । घोरं प्रवत्तितं युद्धं सुराणां भयकारकम् ॥५६॥ चंडाग्निधारदलिताश्चण्डघाताः करोत्थिताः । करवालाः पतन्त्याधः क्षये च रविरश्मयः ॥५७॥ शक्र चापेन चापानि सदा मण्डलितानि च। गजझंकारमुखरां बाणावलि परिश्चलम् ॥५८॥ कुन्तदारितदेहास्तु सावष्टम्भमयैर्भुजैः । दन्डस्थापि न लक्षन्ति न युध्यन्ति गतासवः ॥५६॥ क्षुरार्धचन्द्रचन्द्रासि विनिवर्तित सकर्कशा । पतिताश्चोत्थाय धावन्ति सलक्षाः सुप्रहारिणः ॥६०॥ छिन्नवाहूकरकंठशिरोरु विनिसुस्थिताः । उज्झन्ति शक्तिसंघानि कुटिलेक्षणजिता ॥६१॥ द्विधरापि समुत्थन्ति बहवः शौर्यमुज्ज्वलाः । ततोज्झितापि दृश्यन्ति भ्राम्यमाणा व्यवस्थिता ॥६२॥ प्राधूय वारुणान्तस्था घनस्थेव तडिल्लता । सम्मुखीकृतसारंग कोटिमालोक्यमुद्यताः ॥६३॥
ज्यातलानां रवाश्चण्डा गता भिन्दन्ति रोदसी ।
तद्वत् शराणि लक्षानि विनिशीर्य द्विधां तनुम् ॥६४॥ पतिताः संविलक्ष्यन्ति छिन्नपक्षेव पर्वताः । प्लवन्तासृक् प्रवाहिणी गन्धं जम्बूनदी यथा ॥६५॥ प्रातपत्रसिताम्भोज कुमुदोत्पलवाहिनी । झषनक्ररथाश्चित्र करिमकरसमाकुलाम् ॥६६॥
२. कृत्वारीणाम् क ।
१. कुलितायुधः ग । ३. शारंग ।
४. गदा क ग ।
५. तनु: ख ।
६. पर्वतां कृत सारंगम् ग ।