________________
देवीपुराणम्
३१७
ततः शिवेन ताः सर्वाः अनिवारिततेजसः । निवेदितं मया तुभ्यं रुरु त्वं हि घातय' ॥२६॥ ततः कलकलारावं कृत्वा देवी' सुदारुणम् । दानवी चतुरंगेण पातितान्तु महौजसा ॥३०॥ ततः परस्परालापं कृत्वा धूर्यमिवाकुलम् । घर्घरारावघोरेण स्यन्दनानां जवस्थिताम् ॥३१॥ वज्रपट्टशिलासंघः स्फालनैः स्ववलिनोत्थिताम् । अक्षणाभिकषोत्पन्नः क्वद्भिः पूरितं नभः ॥३२॥ आलोकालोकपर्यन्तं ब्रह्माण्डं स्खलितं पुनः । प्रतिशब्दं महाघोरं श्रवणे कातराकरम् ॥३३॥ जनान् जनस्थितानान्तु नखरैन्निष्ठुराः हता । चूर्णयन्ति * पतन्तीव रुक्ममाणिक्य संचयाः॥३४॥ सौर्यवर्णाज्रिपालस्तु' सनाथा भूधरोपमा । भग्नांकुशाः समुत्पत्तिः प्रतिगन्धविरोषिताः ॥३५॥ दुदिनं मेघधारेव दन्तिनां शीकरैर्घनैः । न परं नापरं शक्र जनयन्ति जनैषिणः ॥३६॥ पालोकस्थं समुत्सुक्यं व्याहरन्तं परस्परम् । सदा नित्यवमेकन्तु सान्द्रीभूतोऽमयं बली ॥३७॥ कपोलपुलितं हेम रोमार्थतनु कर्कशम् । सुकठोरप्रहारस्तु निरपेक्षन्तु निष्ठुरम् ॥३८॥ उरसि यत्र कलितं हुङ्कारसहितारवम् । उच्छ नं तु बलं तन्तु वमन्तं रभसा बलम् ॥३६॥ भग्नवृन्दं करिमिश्रं रथरुवं प्रवत्तितम् । भ्रमन्तावर्त्तकुटिलं चलदृष्टिरकातरम् ॥४०॥ रक्षन्तमेकमेकं तु सर्वायुधविशारदम् । शिलीमुखै बहुदन्तैश्च षष्टिवक्त्रैः सुसंकटम् ॥४१॥ तनुत्राणं सुसंघट्ट रणणिवराकुलम् । स्फोटं वज्रायुधानाञ्च अरिप्रतिरवाकुलम् ॥४२॥
क्वचित् पतन्ति च गजा दारिताः सुप्रहारिभिः।
क्वचित् तुरंगगात्राणि भग्नवज्ररथाः क्वचित् ॥४३॥ दंडवज्रगदा शूल शक्ति खट्वांगभेदितम् । गणाधिपेन बलिना क्वचित् परशुसूदितम् ॥४४॥ क्वचित्प्रयान्ति संमोहं कर्कशाहतमस्तकम् । क्वचित्पतन्तमुत्थन्तं दंशिताधरभास्वरम् ॥४५॥ क्वचिन्नमितमातंग ऐरावत द्विजापहम् । क्वचिन्महिषशृंगैश्च नागकूटै निपातितम् ॥४६॥ वृषभंगै क्वचित् प्रोक्त क्वचिच्छिखिसमाहत न् । क्वचिद्व नरवभिन्नमुरुगरूडचंचुना ॥४७॥
१. शिशु धातय । पगु ग । ४. वृत्तेतोति ग । ६. व्यबहरन्तम् ग । ८. असिपत्र क्वणितं ग। ६. श्रीमुख : ग ।
२. घोरम् क ग । ३. प्रतिराष्ट्रम् ग ।
५. शौर्यवता क्रियाजैश्च ग, पानश्च क । ७. हम्यक प्रनित प्रहसं ग ।
१०. रिबाकुलम् क ग।