________________
पञ्चाशीतितमोऽध्यायः
वज्रांकुशकरां देवीं शरासनकरां तथा । एकैक्यं कोटिरूपं तु सर्वायुधधरां स्थिताम् ' ॥१३॥ निघ्नन्ति न च हन्यन्ति पातयन्ति सहस्रशः । महास्त्र भेदयन्त्याशु दानवानां वरुथिनीम् ॥ १४ ॥ गतागताक्षयं शक्र वेलामम्भोनिधेरिव । प्लावयन्ती च मेदिन्यां तद्वदैत्य वरुथिनीम् ॥ १५॥ तप्तास्ता मांस भेदेन न जितो दानवेश्वरः । प्रलम्बासिगदापाणिः परं विस्मयमागताः ॥ १६॥ विषादभयशंकार्ता देवदेव पुरोगमाः । स्तुवन्ति ताः सदा शक्र शिवं सर्वा मरीचयः ॥१७॥ पतिता बाहुदण्डा नो चलन्ति दानवा प्रभो । तदा ब्रह्मादयो देवाः परां शंकामुपागता ॥ १८ ॥ स्तुवन्ति देवदेवेशं कालरुद्रं परापरम् । श्रुत्वा वाक्यं तत शम्भुः शक्तीनामच्युतस्य च ॥ १६ ॥ महत्क्रोधं ततोत्पन्नं क्रोधाद्वह्नि समुत्थितः । वह्निज्वाला सुदीप्तास्तु तिर्यगध्वेमधोगताः ॥ २० ॥ ज्वालाकलापमध्यस्थां सूर्यायुतसमप्रभाम् । कालरुद्रस्य या शक्तीः शिवसाहाय्यतः स्थिताम् ॥२१॥ प्रदतीव च जगत्सर्वं कालरात्रिर्भयानना । दंष्ट्राला पिंगलाक्षी तु प्रलयाम्बुदनिस्वना ॥२२॥ वज्रांकुशकरा देवी दण्डासिपाशमुद्यता । गदाशक्तिविहस्ता तु त्रिशूलायुधधारिणी ॥२३॥ तर्ज्जयन्ती दिशः सर्वा देवदेवपुरः स्थिता । उवाच त्वरितां वाणीं कि करोमि सुरेश्वर ॥ २४ ॥ ततो देवेन सा उक्ता कृष्णेन चापराजिता । यदि मे वत्सला देवि रुरु त्वं हि निपातय ॥ २५ ॥ एवं करोमि देवेश यत्त्वया च सुभाषितम् । सृष्टं च शम्भुना तस्मान्महोदधिसमाशयम् ॥२६॥ त्वं च साहसशक्तिभि पीत्वा क्रोधवशं गता । तदा तु दानवी सेना कोटिधा वर्धिता पुनः ॥२७॥ तद्वीर्यहृष्टकाम्यास्ताः भक्ष्यं प्रार्थयन्ति कृत्स्नश: ।
ह
बुभुक्षिता स्म देवेश भक्ष्यमस्माकं प्रयच्छत ॥ २८ ॥
३१६
१. एकैका : कोटिरूप्यस्तु सर्वाम्बरधरा स्थिता क ग । २. हिनस्ति ग ।
३. देव बरुथिनीम् ख ।
४. निर्जितो क ।
५. बाहुदण्डानि न चान्त क ग ।
६. बाहु क ।
८. इतं सहसा ग ।
७. समाभवेत् ख ।
६. कृत्यय क ग ।