________________
पञ्चाशीतितमोऽध्याय:।
भगवानुवाच । तथा युद्ध समालक्ष्य ब्रह्माणी दनुजैः सह । शंकरेणादि सा शक्तिः ध्याता उत्पत्तिकारणः ॥१॥ . परस्परन्तु संरुध्य युध्यन्ति विजयन्ति च । एवं स्मृत्वा तु स्वां मूर्ति स चक्रे त्रिदशेश्वरः ॥२॥ ध्यात्वा हृदाम्बुजावस्था शशांक शतनिर्मलाम् । पीनस्क धसमारूढां शूल खट्वांगधारिणीम् ॥३॥
एवं गृहाण छिन्धि एवं रौद्रालापां सुरासुराम् । - तां दृष्ट्वा रिपवः सर्वे विद्रुताः भयविह्वलाः ॥४॥ षण्मुरवेनापि दृष्टेन ध्यात्वात्मस्थ मरीचिनी । उत्पादिता महावीर्या शतपत्र समास्थिता ॥५॥ शक्तिघण्टाधरा भीमा शरशृगारनामिताः । हंसस्वरसमेणव ध्वनिना पूरयद्दिशः ॥६॥ चल विद्य नवाकारा दैत्याना पतितां वने । मया शक्र स्वतेजोत्था विसृष्टा कारणेच्छया॥७॥ द्विजेन्द्रसंस्थिता भीमा केयूर कटकोज्ज्वला । शारंगघोर घोषेण शंखनादेन भूरिणा ॥८॥ हेलाहुङ्कारशब्देन दानवेन्द्र निषूदिनी । वैवस्वतेन स्वां मूत्ति श्रुत्वा समुपपादिता ॥६॥ अभेद्य कर्कशेणैव घोरदण्डेन दंष्ट्रिणा । महामहिषमारूढां पाशदंडायुधोद्यता ॥१०॥ घर्घरेणाति शब्देन प्रलयाम्बुदनिस्वना । कालजिह्व च दुष्प्रेक्ष्या क्षया चिरिव निर्मला ॥११॥ शक्रोप्येवं स्वकोयाचि तप्तचामीकरप्रभाम् । मत्तद्विरदमारूढां सहस्त्रनयनोज्ज्वलाम् ॥१२॥
१. हलम् ग । गृहन्ति नद्ये क ग । ३. शतपत्रासनस्थिता क म । ५. बने क ग । ७. अधोद्यता ।
२. पशवः क ग । ४. शव क ग । ६. भूरिणी ग । ८. कृपार्चि क ।