________________
चतुरशीतितमोऽध्यायः
प्रायामित शिरोत्कम्प विषाणाकरकार्मुकाः । प्रभा' पातालमाकार - स्थाङिकर भीषणाः ॥ १२ ॥ प्रपीडिताग्रसंवर्त्त-क्षुभिताम्बर रागिणः । प्रदेशिनी सनासाक्षि वतितोष्ठद्विजा मता ॥१३॥ वैजयन्तीधराः रौद्राः परिघशक्तिपाणयः । ज्वलन्ताग्नि नभाकार पट्टिशोद्यत शक्तिभृत् ॥१४॥ कटकटकराः केचित् पाशांकुशकरास्तथा । भल्लीकरणकचन्द्रार्ध कुठार करभासुराः ॥ १५॥ मुञ्चन्त्यस्त्र महौघानि वलान्ते बलदर्पिताः । भय व्रीडोज्झितमनाः शौर्य वीर्य बलान्विताः ॥ १६ ॥ केचित् स्यन्दनमारूढा मृगराजस्थिताः परे । गजवाजिस्था ऋक्षस्था पदस्थामोघवीर्ययः ॥ १७ ॥ लक्ष कोटिविभागश्च वेष्टितस्तैर्महाबलः । लिह्यन्ति भेदमायान्ति निवर्त्तन्ते शिवायुधैः ॥ १८ ॥ विशीर्यन्तोऽपि वारणोद्यैः सन्मुखं प्रवहन्ति च । रक्तमेदेन गोः पूर्णा तेषां कोशोद्भवेन च ॥ १६ ॥ ततो ब्रह्मादयो देवा भयं जग्मुः सवासवाः । यदि स्यान्निजितो देवः क्षयः सर्वदिवौकसाम् ॥२०॥ एतस्मिन्नन्तरे शक्र ब्रह्मा चिन्तयते क्रियाः । स्त्रीरूपधारिणी भूत्वा सहायत्वं महेश्वरे ॥२१॥ क्षिप्रं कुर्युः स्वकार्येदं एवं विश्वेश्वरे रणे । तत्रोत्पादितवान् ब्रह्मा स्वशक्त किरणोज्ज्वलाम् । कमण्डलुकरां देवी शरासनकरां तथा ॥२२॥
hai कोटिरूपेण सर्वायुधधरां स्थिता । निध्नन्ति न च हन्यन्ते पातयन्ति सहस्त्रशः ॥ २३ ॥ ब्रह्मरूपधरां किन्तु ललनाकारविग्रहाम् । हंसस्यन्दनमारूढां स्वकीयायुधधारिणीम् ॥२४॥ तर्ज्जयन्ती महौजेन दानवानां भयंकरी । तस्य घोरानि कर्माणि दृष्ट्वा स विस्मयन् शिवः ॥ २५ ॥ का पुनः स्रष्टा सुस्नेहा सदा ते प्रतिपक्ष जित् । अस्या शक्तिद्वितीयायां सृजामि श्रपराजिताम् ॥२६॥ इति श्री देवीपुराणे रूरूवधे ब्रह्माण्युत्पत्तिर्नाम चतुरशीतितमोऽध्यायः * ।
३१४
१. पुत्रा ग, पात्राणि क ।
२. तत्र प्रयान्ति क ग ।
३. महेश्वरी ग ।
४. इत्याद्ये देव्यवतारे रुरुवधे ब्रह्माण्युत्पत्ति क ग ।
进