________________
चतुरशीतितमोऽध्याय:
शक उवाच ।
भगवन् भवतो ख्यातिमरातिक्षयजां कथाम् । सुमनाकृष्टिजननीं श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥ कथं स दैत्यराजेन्द्रो महाबल पराक्रमः । श्रजयः सर्वदेवानां भवान् चावहितो वद ॥२॥
श्रीभगवानुवाच ।
शृणु ते कथयिष्यामि देव्याः कीर्ति रूरोर्वधम् । यथा पृष्टं त्वया शक्र तथाहं ते निबोधत ॥ ३ ॥ दत्त्वा शक्ति स्वकोशेभ्यो' देवदेवेन वासव । गच्छध्वं सगणाः सर्वे विष्णुब्रह्मपुरन्दराः ॥४॥ तदादेशाद् वयं सर्वे गता यत्रासुराधिपः । तथा तेन जितास्तम्भात् पुनस्तत्रैव श्रागताः ॥५॥ स च क्रोधसमाविष्टः शम्भुं घाताय श्रागतः ।
तं दृष्ट्वा सहसा शम्भुर्गणान् सर्वान् समादिशत् ॥६॥
योधध्वं दानवेन्द्रेण देवानां हितकाम्यया । तथा स गजसंघेन वेष्टमानोऽपि वासव ॥७॥ निर्जित्य सहसा देवान् शिवोपरि व्यवस्थितः । एतस्मिन्नन्तरे देव रूपं कृत्वा तु भैरवम् ॥ किल विध्वंसयिष्यति न च भीतः प्रहर्षितः ॥ ८ ॥
ततस्तस्याहवं घोरं सह देवेन शम्भुना । सञ्जातं सह देवानां दानवानां भयंकरम् ॥ ॥ कथञ्चित् सुप्रयत्नेन वीर्य वन्तश्च वासव । छिन्नं तस्य तदा कंठं धारासृग् भूतलं गता ॥ संख्या रुधिरास्त्र े निर्गताः काश्यपीतलात् ।
भूतार्थं भूतिरूर्ध्वन्तु कवचिनः सोत्तरच्छदाः ॥१०॥
सुरक्त राग पट्टस्तु प्रापीडितोऽपि ताडिताः । विकाशोद्यता निस्त्रिशास्तडिद्धस्ता सरवेटकाः ॥११॥
१. कायेभ्यो ग ।
२. असंख्याता रुरुस्तत्र ग ।
३. गदाम् ग पदा के ।