SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ त्र्यशीतितमोऽध्यायः । त्वं गायत्री सदा देवी वेदमाता स्वयंभुवा । महाज्ञान परा नित्यं ज्ञानगम्य नमोस्तु ते ॥२॥ ईशानमीश्वरं ब्रह्म सदाशिवाशिवं तथा । देवर्षिपितृभिनित्यं स्तूयसे त्वं नमोऽस्तु ते ॥३॥ पद्मासना चतुर्वक्त्रा अक्षपारिणश्चतुर्भुजा । पञ्चानां परतो नित्यं निरालम्ब नमोस्तु ते ॥४॥ सद्यो वा अघोरश्च तत्पुरुषेशानमेव च। हंसयान समारूढा त्वं ब्रह्माणी नमोस्तु ते ॥८५॥ त्रिनेत्रा शूलहस्ता च जटामुकुटधारिणी । पञ्चब्रह्म कलातीत षष्ठ ब्रह्म नमोस्तु ते ॥८६॥ कालः कालाग्निरुद्रश्च आदित्योदयमेव च । वृषस्कन्धसमारूढा त्वं रुद्राणी नमोस्तु ते ॥८७॥ त्रिजटा बालरूपा च शक्तिहस्तारुणा स्वरा। पंचधावस्थिता नित्यं पंचावरणं नमोस्तु ते ॥८॥ .. पृथिव्यापस्तथा तेजो वायुराकाशमेव च । मयूरासन समारूढा कौमारी त्वं नमोस्तु ते ॥८६॥ पद्म चक्र गदाहस्ता पीताम्बरविभूषिता । निर्वाणं परमातीतं निरञ्जन नमोस्तु ते ॥६॥ क्षराक्षर विनिर्मुक्त स्वरव्यञ्जन वजितम् । त्वं गरुडासना देवी वैष्णवी त्वं नमोस्तु ते ॥१॥ रक्तनेत्रे सुदंष्ट्रे च कालरूपे भयंकरे । कला कलंकरहितं निष्कलंक नमोस्तु ते ॥२॥ प्राकृति नैव जानामि गतिमुत्पत्ति मेव च । मेघवर्णे महाघोरे त्वं वाराहि नमोस्तु ते ॥३६॥ वज्रपाणि सहस्राक्षे छत्रध्वज मनोरमे । स्वयम्भुवं महात्मानं महादेव नमोस्तु ते ॥१४॥ भावैर्बन्धयसे विश्वं भावैर्मोक्षयसे पुनः । ऐरावतसमारूढे त्वमिन्द्राणि नमोस्तु ते ॥५॥ त्वं निर्मासे महादेहे मांसोदन बलिप्रिये । स्वभावभावमात्मानं भवोद्भव नमोस्तु ते । ॥६६॥ यो भवः सम्भवश्चैव भयंचाभयमेव च । कपालखट्वांगकरे त्वं चामुण्डे नमोस्तु ते ॥१७॥ १. प.ञ्चालम् ख । ३. पंचाचरण ग । ५. श्लोकत्रयं नास्ति ग पुस्तके । २. सत्यो ग । ४. शंख चक्र क।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy