________________
देवीपुराणम्
२११
त्वमेका सप्तधा देवी बहुधा च विराजसे ।
भावयेत् प्रणिधानेन योऽसि सोऽसि नमोस्तु ते ॥८॥ स्तवोऽयं तव देवेशि सशिवाय महात्मने । तोषरणीया च त्वं देवि सर्वासुरनिबर्हणि ॥६६ घण्टानिनाद शब्देन छत्रध्वज समाकुले । शार्दूलेन च यानेन शोभसे त्वं नमोस्तु ते ॥१०॥ क्रमसि त्वं क्षणार्धेण भुवनानि महातले । भूर्लोकञ्च भुवर्लोकं स्वर्लोकञ्च नमोस्तु ते ॥१०१॥ त्वमोकार व्यवस्थिता देवि प्रकारादिविसर्गतः । त्वं स्थिता सर्ववर्णेषु पृथग्रूपे नमोस्तु ते ॥१०२॥ त्वं वामाद्या स्वयं देवि शक्तिव्यूहे व्यवस्थिता । विभुराद्या तथैव त्वं महादेवि नमोस्तु ते ॥१०३॥
त्वं रात्रिस्त्वं दिन देवि ऋतवो वत्सरानि च । निमेषश्च मुहर्तश्च त्वं संक्रान्तिनमोस्तु ते ॥१०४॥ त्वं काली कालरात्रि च कृतान्ती च सुदारुणा।
त्वं भीषणी महारौद्री महाकाली नमोस्तु ते ॥१०५॥ दक्षयज्ञविघाती त्वं यमशीर्ष निकृन्तनी । त्वं देवि वीरमाता च उग्रकाली नमोस्तु ते ॥१०६॥
त्वमेव देवि आकाशो त्वं च पाताल गोचरा।।
त्वं स्वर्गे चापवर्गे च मुक्तिदा त्वं नमोस्तु ते ॥१०७॥ त्वं हि सर्वात्मिका देवि सर्वमूत्तिषु संस्थिता । स्थूलसूक्ष्मविभागेन योगनी त्वं नमोस्तु ते ॥१०॥
यं यं पश्याम्यहं देवि स्थावर जंगमेषु च । तं तं व्याप्तं त्वया सर्व कात्यायनि नमोस्तु ते ॥१०॥ त्वञ्च शक्तिक्रिया देवि नादविन्दु कलात्मिका ।।
त्वं शिवा परभावेन ज्ञानशक्तिर्नमोस्तु ते ॥११०॥ त्वया देवि प्रसन्नाया शिवः प्रत्यक्ष तो मम । तथा त्वं रूरूबन्धाय प्रसादं कुरू शांकरि ॥१११॥ वासव ब्रह्म सूर्याणां ह्रियमाणे त्रिविष्टपे । दैत्यौघमज्जमानानां त्वं पोता भव शूलिनी ॥११२॥
१. रुद्रकाली ग भद्रकाली क । २. व्यापनी क ग।