________________
देवीपुराणम्
३०६ .
त्वं देवी उग्रसञ्चारी त्वमुग्रव्रतधारिणी । तस्यार्धन्तु शिवो नित्यं सदाशिव नमोस्तु ते ॥६६॥ अर्धमाना परा या तु तस्यार्धस्य परापरम् । त्वमुग्रशूलहस्ता च उग्रेश्वरि नमोस्तु ते ॥६७॥ त्वं हि क्रोधात्मिके देवि क्रोधभावेन संस्थिता । परात्परतरं शान्तं शांतातीत नमोस्तु ते ॥६॥ अकारोकारमूर्धश्च मकारो बिन्दुरेव च । दानवानां वधार्थांय क्रोधेश्वरी नमोस्तु ते ॥६६।। त्वं हि नारायणी देवी कौमारी ब्रह्मचारिणी । निर्वाणं परमातीतं नित्यातीत नमोस्तु ते ॥७०॥ चित्तवेत्ता तथा चित्तं वेद्यो निश्चित्यकस्तथा । सर्व मंत्रमयदिव्यैः स्तूयसे त्वं नमोस्तु ते ॥७१॥
त्वं जया विजया नित्या अजिता चापराजिता ।
असञ्चित्तं सचित्तञ्च चित्तातीत नमोस्तु ते ॥७२॥ बालार्कशतभागस्य शतधा कल्पितस्य च । त्वं सिद्धिः साधकानान्तु सिद्धेश्वरि नमोस्तु ते ॥७३॥
द्य तिःप्तिः कान्तिश्च कीत्तिः श्रद्धा त्वमेव च।
- त्वं अनौपम्यभासश्च शिवः शान्त नमोस्तु ते ।।७४॥ अनन्तं शाश्वतं विश्वं देहस्थं देहवजितम् मेधा । सरस्वती त्वं हि त्वं श्रीदेवि नमोस्तु ते । ॥७॥
त्वं हि वृष्टिः स्वयं देवि त्वं सृष्टिश्च प्रजापतिः ।
हृदिस्थं सर्वभूतेषु व्योमस्थन्तु नमोस्तु ते ॥७६॥ अग्राह्यमिन्द्रियैर्वापि सर्ववर्णविजितम् । त्वं वणिक्कृषिकर्माणि त्वं सीता च नमोस्तु ते ॥७७॥ धरणी धारणी त्वं च त्वं वेला सागरेषु च । स्वतेजोगूढमात्मानं गुहावास नमोस्तु ते ॥७॥
गुढातीतञ्च गूढात्मा गूढानां गूढगोचरम ।
त्वं दिशो विदिशश्चैव त्वं सन्ध्या च नमोस्तु ते ॥६॥ त्वं मातृका च देवेशि स्वरवर्णविभूषिता । गुहाकासप्रदा नित्यं पूजार्था नमोस्तुथं ते ॥१०॥
महात्मानं महादेवं महामाया परापरम् ॥ सर्वशास्त्रेषु वेदेषु गीयसे त्वं नमोस्तु ते ॥८१॥
१. कौशिकी वह्मचारिणी क ग । २. चित्तं चेता तथा चिता चित्योऽकाश्चितकस्तथा ग ४. शिरवर ग।
३. चित्त्यातीत ग । ५. गूढार्थार्थ ग गृहाक्ता क ।