________________
३०८
यशीतितमोऽध्यायः
जय त्वं सर्वमंगल्ये सर्वकारणकारण । श्मशानवासि देवेश निरावासे नमोस्तु ते ॥४७॥ कपालहस्तमीशानं कपाल कृत भूषणाम् । सर्वलोकप्रणेतारं सर्वेश्वरि नमोऽस्तु ते ॥४८॥ जये भुवन कर्तारी त्वं सर्व भुवनाधिपे । कपालमालिनं देवं महाकाल नमोऽस्तु ते ॥४॥ चन्द्रमूर्ध्नि कृतं नित्यं चमवासः सदाप्रियम् । भूत भव्य भवं सौम्ये भुवनेश्वरि नमोस्तुते ॥५०॥
त्वं हि योगात्मिके योगे सर्वयोग प्रदायिके ॥
गजचर्मधरं देवं चण्डरावे'नमोऽस्तुते ॥५१॥ त्रिशूलपाणिनं नित्यं त्रिनेत्रं त्रिदशेश्वरम् । दिव्ययोगोद्भवे दिव्ये योगेश्वरि नमोऽस्तुते ॥५२॥ त्वं हि रौद्री महारौद्री नित्यं रौद्रपराक्रमा। त्रिमूत्ति च परं देवंत्रिपुरान्त नमोस्तुते ॥५३॥ सर्वेश्वरं सर्वगतं सर्वशं सर्वतोमुखम् । त्वं च रुद्रात्मिके देवी रुद्र श्वरी नमोस्तुते ॥५४॥ जय देवि सुरश्रेष्ठे त्वं सर्वसुरपूजिते । सर्वत्रावस्थितं शान्तं सर्वव्यापिन् नमोस्तु ते ॥५५॥ यस्मिन् सर्व यतः सर्व यः सर्व सर्वतश्च यः । सुराणामधिपे देवि सुरेश्वरि नमोस्तु ते ॥५६॥ जय विद्यात्मिके विद्य विद्याभरण भूषिते । यश्च सर्वमयो देवस्तस्मै सर्वात्मने नमः ॥५७॥ स्थूलसूक्ष्मविभागेन व्याप्तं येन चराचरम् । सर्वविद्याप्रदातारि विद्येश्वरि नमोस्तु ते ॥५॥ त्रिदशैस्त्वं स्तुता दिव्ये त्वं त्रिलोचनवासिनी । अनादिमादिमं रुद्रं व्यक्तातीतं नमो नमः ॥५६॥. अनन्तं शाश्वतं विश्व ध्र वं नित्यमुमापतिम् । त्रिशूलपाणिस्त्वं देवी गणाध्यक्षे नमोस्तु ते ॥६०॥ श्रीकण्ठं श्रीधरं श्रीशं नीलकण्ठ नमोस्तु ते । विद्यामयी तनुर्यस्य विद्यातीतं च संस्थितम् ॥६१॥ गणानां नायिका त्वं हि गणेश्वरी नमोस्तु ते । त्वं हि दुर्गे महावीर्ये दुर्गे दुर्गपराक्रमे ।
सकलो निष्कलश्चैव कलातीत नमोस्तु ते ॥६२॥ योगाधिपो योगगम्यो योगात्मा योगसम्भवः । रमसे देवि दुर्गेषु दुर्गेश्वरी नमोस्तु ते ॥६३॥ त्वं चण्डा त्वं प्रचण्डा च त्वं ब्रह्माण्डविदारिणी । महायोगधरं नित्यं योगेश्वर नमोस्तु ते ॥६४॥ प्रोमित्येकाक्षरं ब्रह्म प्रख्यातं भुवनत्रये । चण्डरूपा महाविद्या चण्डेश्वरि नमोस्तु ते ॥६५॥
१. चण्डुनाथ ग। ३. त्रिलोकनिवासिनी ग।
२. महात्मानम् क ग। ४. पद्यमिदं क पुस्तके नास्ति ।