________________
देवीपुराणम्
३०७
न जेतुं शक्यातें देव ब्रह्माद्य स्तु पुरन्दरः । तथा स बलवान् मत्त शक्र देवाँस्तु मामपि ॥३०॥ प्रजानां वासवो ब्रह्मा यत्राहं सुरसत्तम । त्रिकूटे शैलराजेन्द्र वयं सत्त्वसमाधिगाः ॥'
तिष्ठामः स्तूयते ब्रह्मा शक्रचन्द्रादिभिस्तथा ॥३१॥
* देवा ऊचः । नमः पंकजनेत्राय विष्णवे जिष्णवे नमः । नमो देवातिदेवाय देवतारिहने नमः ॥३२॥ नमस्त्वाश्रम धर्माय विघ्नहन्ताय वै नमः । नमः सर्वसमर्थाय सर्वधर्मरताय च ॥३३॥ देव दानवयक्षाणां त्वं रक्षापालकः प्रभो । अस्माकं त्वं गतिर्दैव रुरुणा त्रासिता वयम् ॥३४॥ त्राता नस्त्वं भवान् एको मज्जमानान् महोदधौ । रुरुसागर घोरेऽस्मिन् दैत्यग्राहे महाजले ॥३५॥ इषु चक्रासिमकरे त्वं पोतो भव अच्युत । एवं यावत्समस्तानामभयेदं समुद्यतः ॥
तावत् स दनुराजेन्द्रस्तत्रैव सहसागतः ॥३६॥ तथा स युध्यमानस्तु मया च सह वासव । सर्वदेवैः समारब्धो योधितुं दनुपुंगवः ॥३७॥ तथा ते बलसम्पन्ना असुरा बलदर्पिताः । हताश्चक्रासिशारङ्गः निपतन्ति महोदधौ ॥३८॥ तथाऽन्ये भिद्यमानास्तु गता पारं तथा परे । प्रविष्टाश्चैव पातालं केचिन्नष्टा रसातलम् ॥३६॥ एवं तं दानवं सैन्यं मम चक्राहतं महत् । दृष्ट्वा दैत्यपतिः शक्र महामायां प्रवत्तितः ॥४०॥ तेन ते दैत्यमरुता वसु वासव चन्द्रमाः । यम नैऋतिधर्माद्याः क्षणमात्रेण निज्जिताः ॥४१॥ तया ब्रह्मा सशक्रश्च वृहस्पतिर्महामतिः । वयं च सहसा याता यत्र देवस्त्रिलोचनः ॥४२॥ स च देव्या सह शक्र एकोऽनेकाऽभवन्मुदा । चित्तं न लक्ष्यते तस्य न च भावो न कारणम् ॥४३॥ स एव शक्तिरुपत्वात् स च ब्रह्मस्वरूपिणः । स च मां शक्र भावेन कारणेव व्यवस्थितः ॥४४॥ एवं विधं तदा ज्ञात्वा शिवशक्तिमयं जगत् । मया च सह ब्रह्मण स्तोतुमारब्ध तद्विधम् ॥४५॥
ब्रह्मकेशवावूचतुः। नमस्ते भगवन् देव दिग्वासाः कृत्तिवाससे । तमहं संप्रवक्ष्यामि सा तु सर्वसुखप्रदा ॥४६॥
२. सदने नमः ख ।
१. सुख ग। ३. क्षत वाससे क।