________________
त्र्यशीतितमोऽध्यायः
एतत्त्रिभावभावाय' उत्पत्तिस्थितिकारक । रजोरूपगुणाविष्ट सृजसीदं चराचरम् ॥१३॥ सत्रपाल महाभाग तमः संहरसेऽखिलम् । गुणसंतानमूत्तिस्त्वं ददसे परमेश्वर ॥ १४ ॥ वेद वेदान्तगर्भाय नमामि च त्वां ब्रह्मणः । यस्य नित्यं श्रुति शब्दं चत्वारो वरमाननात् ॥१५॥ ऋज्यजुसामाथर्वाणो वा निष्क्रमन्ति पदक्रमाः । शिक्षाकल्पानिरुक्तानिच्छन्दो ज्योतिषि चागमाः ॥ १६ ॥' चक्षुभूता शेषस्य जगतोऽस्य सुखप्रदाः ।
त्रयः कालास्त्रयोदेवास्त्रयो विष्णु स्त्रयः क्रियाः ॥१७॥
यस्य सम्भवनामस्य तं नमामि पितामहम् । इन्द्र चन्द्रहरि यक्ष रक्ष हुतवहस्तुतम् ॥ १८ ॥ तं नमामि सदा देवमव्यक्त ं व्यक्तकारणम् । एवं स्तुताः रुरोः पूर्वं ब्रह्मा वरप्रदोऽभवत् ॥१६॥ ब्रह्मोवाच ।
याच वत्स वरं मह्यमसुराधिपते शुभम् । ददामि सप्तलोकानां त्वं प्रभुरजरोऽक्षयः ॥२०॥ एवं तु भगवांस्तेन कस्मिंस्तिष्ठामि सत्तम । मयान्तर पाताले तु भक्षणाद् विनिवेशितः ॥ २१ ॥ स च देव्या मुखालोक हृष्टः किंचिन्निरीक्षते । शम्भुना च तथा उक्त इयमेनं वधिष्यति ॥ २२ ॥ तथा चोक्त पुनः शंका उज्झिता सुरसत्तम । सच अवान्तरं गत्वा पातालं चक्रे हृदा नवः " ॥२३॥ सर्वलक्षणसम्पन्नं सर्वकामफलप्रदम् 1 सर्वगुणोपेतं सर्वरत्नविभूषितम् ॥२४॥ तत्रस्थस्य ततस्तस्य कालनेमिसुतादयः । श्रागत्य प्रीतिभावन्तु भुवनमिष्टदर्शनम् ॥ २५॥ हाटकेश्वरदेवस्य यदा पूजा निर्वात्तता । तदा तेनं प्रतिज्ञातं मम साहाय्यतां भवान् ॥२६॥ तथा कालेन महता प्रीत्या दैत्या वशं गताः । ते सर्वे कन्यका दध्यूः कुलजोऽयं महाबलः ॥२७॥ तथा सबल सम्पन्नो जित्वा पृथ्वीं सकाननाम् । सद्वीपां सबलोपेतां सर्वशैलसरोपगाम् ॥ २८ ॥ देवानां विग्रहं चक्रुस्तेन ते विजिताभवन् । ब्रह्मणो वरदानेन' 'देव्याभाव समुद्भवः ॥ २६ ॥
३०६
१. त्रिभागभावाय क ग । ४. शुभप्रदा क ग । ५. त्रयो वह्निः क ग ।
८. च हृदा नरः ख ।
६. इद्र दर्शनम् ग । हट्ट दर्शनम् क।
२. सत्त्वपात ग सत्त्वतान् क ।
६. कग पुस्तके नास्ति ।
३. चरगाननात् ख ।
७. अजयो क ग ।
१०. दीनेन ग ।