________________
त्र्यशीतितमोऽध्यायः।
शक्र उवाच । सर्वत्र च श्रुता देव वेदवेदार्थ पारगैः । पुराणमितिहासं च सप्त एव न चाष्टमम् ॥१॥ त्वं पुनः कथ्यसे चाष्ट उत्तमं तच्च सर्वसु । कथं तत् केन वा सृष्टमेतदिच्छामि वेदितुम् ॥२॥
__ श्रीभगवानुवाच । कैलासशिखरासोनं देवदेवं त्रिलोचनम् । तिष्ठन्तमुमया साध ऋषिदेव नमस्कृतम् ॥३॥ तं द्रष्टुं भगवान् ब्रह्मा वयं शक्रबृहस्पती । तथा च क्रीडते स्कन्दो बहिणारुण नित्यशः ॥४॥ ब्रह्मस्य ह्यासनं हंस शिखिना चञ्चुना हतः । रुराव करूणं शब्दं देव्या तं च निशम्य च ॥५॥
विहस्य ब्रह्मामालोक्य ब्रह्मा तञ्च तथा शिखीम् ।
दण्डेनाताडयत् किञ्चित् शिखिना सह वारितम् ॥६॥ तञ्च श्रुत्वा तथा देव्या दुःखायमनुचिन्तयत् । तथा मेघसमाकारं घोरं घोर पराक्रनम् ॥७॥ निष्क्रान्तं शिखिरावस्य ब्रह्मयानस्य वारकम् । तं दृष्ट्वा सहसा देवी शंकिता ब्रह्मबीडया ॥८॥ . . शंकरेणापि सम्प्रोक्तो ब्रह्मणोऽस्य स्तवं कुरु ॥६॥
करोति शम्भुना उक्तः स्तवेदं कमलोद्भवम् ।
देवानां परमं देवमुत्पत्ति-स्थिति कारकम् ॥१०॥ तथा देशं समास्थाय देवदेवस्य शूलिनः । स्तवेन स्तवते रूरूब्रह्माणं परमेष्ठिनम् ॥११॥
रूरूरुवाच । जय देवातिदेवाय त्रिगुणाय सुमेधसे । अव्यक्तजन्मरुपाय कारणाय महात्मने ॥१२॥
१. चाषर ग। ३. विहाय ब्रह्मलोकस्य ब्रह्मादंडेणाताडयत् क ।
२. श्री क ग पुस्तके नास्ति ।
४. सरवायम् क ग।