________________
३०२
द्वाशीतितमोऽध्यायः
शिखिझंकारशब्देन स्तोककर्णादितेन च । अलिभिर्गीतशब्देन कोकिला कूजितेन च ॥
उद्दीपयति चानंगं विखिन्न मनचेतसाम् ।।३२॥ नानामद्यविशेषाणि पिवन् पानानि वासव । असुरानेन भावेन देवी पूजयते सदा ॥३३॥ करताले स्थिता ह्यवं श्रीताले च निबोधत । ताराख्य शिशुपालश्च अमयश्चासुरास्त्रयः ॥३४॥ कम्बलस्तक्षकः पद्मो नागराख्यस्त्रयस्तथा। यमदन्तोग्रदन्तश्च'विशालाख्यश्च राक्षसाः ॥३५॥ चतुर्थं सम्प्रवक्ष्यामि दैत्याश्च महिषोपमाः । तृतीयः कालपृष्टश्च नागाः कर्कोट पंकजाः ॥३६॥ शंकुकर्णस्तृतीयश्च राक्षसाश्च निबोधत । महादेवं महाकायं तृतीयन्तु महाभुजम् ॥३७॥ शर्करे ते विजानीयाः पंचमन्तु निबोधत । अमरः शंभुस्तापाख्यो असुरास्ते त्रयः स्मृताः ॥३८॥ सुपर्णः कूलिको नागस्तृतीयश्च धनंजयः । अस्थिभद्रो विरुपाख्यो उग्ररूपाश्च राक्षसाः ॥३६॥ गतस्ते ते समाख्याता पृष्ठे वैरोचने शृगु । कालनेमि हिरण्याख्यो निशुम्भश्च त्रयोऽसुराः ॥४०॥ अत्रैव यत् पुरावृत्तं कथयामि सुरोत्तम । दाक्षिणात्ये महाराष्ट्र कुलदेवस्तु ब्राह्मणः ॥४१॥ तस्य पुत्रः समुत्पत्नो नाम्ना तस्करवल्लभः । स च कालेन महता नामरूपं प्रवत्तितः ॥४२॥ मित्र देवद्विजातीनां महद्रव्यापहारकः । कदाचित् कालपर्यन्ते मलये पर्वते गतः ॥४३॥
तत्र कन्याभिधाना तु भवति जलसम्वृता ॥४४॥ बहुद्रव्य सुसम्पूर्णा नगरद्वारसंस्थिता । स च द्यूतं रमित्वा तु नाम्ना तस्करवल्लभः ॥४५॥
रात्रौ प्रविष्ट्वास्तस्मिन् उत्सृष्टो द्रव्य हारकः ।
यावद्दीपः समप्राप्तस्तैलस्तेनाभवत् किल ॥४६॥ तावत् तेन तथा तैले द्रव्यान्वेषणकारिणे। दत्ते प्रबुध्यवाँस्तत्र देवलो देविपूजकः ॥४७॥
स च प्राणभयान्नष्टः कालान्मृत्युरभूत् पुनः ।
___ काञ्चीराजाधिपः शक्र नाम्ना खड्गकरोद्यतः ॥४८॥ देवी भक्तवरो नित्यं मद्यमांस-वसाप्रियः । देवब्राह्मणद्रोही च देवभू-ग्रामहारकः ॥४॥
१. दण्डोग्रदण्डश्च ग । ३. तत्र कक्षाभिधाना तु भवती जनसंस्कृता ग ।
२. महादेवं ख। ४. तैलछेदात् ग।