________________
देवीपुराणम्
वयं कालग्निरुद्रस्य शतांशेन प्रमाणतः । ममोपरि स्थिताः सप्त पाताला मनकामंदा:' । यत्र नागाः शूराः रक्षाः तिष्ठन्ति मम पूजकाः ॥१५॥ रुद्रभक्तास्तथा चान्ये ब्रह्मदेवीज्यकाः परे । परं तत्त्वमजानन्तः पृथग्भावेन भाविताः ॥ १६ ॥ अन्ये सर्वगतान् सर्वान् देव्याः शवत्यावलोकिताः । पश्यन्ते मम सद्भावा मुमुक्षुः परगामिनः ॥ १७ ॥ यस्मिन् ये संस्थिताः शक्र तान्निबोध समासतः । श्राभासं करतालं च शर्कर च गभस्तिमम् ॥ १८ ॥ महातालं सुतालं च सप्तमं च रसातलम् । सौवर्णमष्टकं शक्र न प्रसीध्यन्ति चागमः ॥ १६ ॥ देव्या रुद्रपरा लोका मन्त्रतन्त्रविशारदाः । स्वदेहान्ते प्रविशन्ति नागकन्याः रमन्ति च ॥ २०॥ अष्टमं तद्विजानीयाद् वसुरत्नोपशोभितम् । विभूति क्रीडं संक्षेपात् कथयामि सुराधिप ॥२१॥ प्रथमं भासमानन्तु तत्र हेममयी मही । नानारत्नसमाकीर्णं प्रासादं स्फटिकोज्ज्वलम् ॥ २२॥ रत्नैश्च खचिताः स्तम्भा द्वारबन्धाश्च वासव । स्त्रीसहस्रसमाकरणं लक्षकोटिभिरेकधा ॥ २३ ॥ श्रावृतं कोटिकोटीनां प्राधान्यात् कथयामि ते । नमुचिः शंकुकर्णश्च महानादस्तृतीयकः ॥ २४ ॥ अनन्तः कुलिको नाग एलापत्रश्च नागकाः । राक्षसाः शूलदन्तश्च रक्ताढ्यो विकटस्तथा ||२५|| सुखभाग् दुःखसन्तप्ता देव्या भक्तिसमन्विताः । स्त्रीसहस्रमदेहृष्टा श्राभासेषु कृताः जनाः ॥२६॥ शतकोटिप्रविस्तारै वरताले निबोधत । पद्मरागमयी भूमि रत्नैः खचितमन्दिराः ||२७|| तत्र हच्छ्रिता तुंगा इन्द्रनीले विभूषिताः । द्वारे बन्धाश्च प्रवला मुक्ता रुक्माश्च तोरणाः ॥ अनेकको यो यत्र राक्षसासुरपन्नगाःः ॥२८॥
प्रह्लादो अग्निजिह्वश्च श्रह्लादोऽसुरास्त्रयः । वासुकिः शंखपालश्च धृतराष्ट्रस्त्रयोरगा ||२६|| विद्य ुन्माली हिरण्याक्षो विद्य ुज्जिह्वश्च राक्षसाः । चलचकितवितस्तं धूपक्षसु चायतेः ॥३०॥ तासां दृष्टिनिपातेन सविकारामलेन च । विस्त्रम्भाला पभावेनविभासोत्फुल्लितेन च ॥ स्मरोऽपि स्मरणाच्चता गतासुरिव लक्ष्यते ॥३१॥
१. मलकामोदाः ख ।
३. तात क ।
४. द्वारबन्धास्तु प्रावाराः क ग ।
२. सुरेश्वरम् क ग ।
५. चित्र मालापभातेन ग ।
३०१