________________
द्वाशीतितमोऽध्यायः ।
शक्र उवाच।
कालाग्निभवनस्यार्धे वज्रपाषाणमूर्धनि । ये स्थितास्तत्र देवेश तान् कथयस्व प्रसादतः ॥१॥
श्रीभगवानुवाच । यथा पृच्छति मां शक्र ऊर्ध्वं कालपुरस्य तु । तथा ते कथयिष्यामि शृणुष्व वदतो मम ॥२॥ ऊष्मोदके नरकाः शक्र कोट्यः पंचाशन्मानतः । चत्वारिंशच्छतं तेषां प्रधानं तन्निबोधत ॥३॥ अवीचिः कृमिभक्ष्यश्च तथा वैतरणी महान् । कूटं शाल्मलिगुच्छासं युग पर्वतरौरवम् ॥४॥ निरुच्दासः पूतिमांसं तप्तलाक्षास्थितञ्जनः । क्रकच्छेदस्तथा पंकः कण्टायससुतापितम् ॥५॥ पूतिपूर्णस्तथा भेदः स्तम्भं च रूधिरं वसा । तामिस्रमपतुण्डश्च तीक्ष्णासिश्च नपुंसकः ॥६॥ लोहितन्तु स्त्रिया भीमा अंगारराशिरिवोपरि । कुम्भीपाकः क्षुरमध्यः सञ्जीवनसुतापकम्॥७॥ कालसूत्रं महापद्म शीतोष्णं क्षतुरमेव च । अम्बरीषं तथा घोरं महारौरव सम्पुरम् ॥८॥ सूचीमुखेषु यन्त्रश्च तैलतप्तत्रपुस्तथा । असिपत्रं तथा पोनं करपत्रं च वासव ॥६॥
चत्वारिंशत् शतं घोरं तेषां त्रीणि परान् शृणु।
अवीचीरौरव कुम्भीपाकाः पच्यन्ति पापकान् ॥१०॥ देवद्विजगुरुद्रोहा बालस्त्रीवधवञ्चकाः । सद्वृत्तमाचरन् शक्र विघ्नकाः पाचयन्ति ते ॥११॥ देव्या दिवं तथा वस्त्र-भूमी-राज्यापहारकाः । पाचयन्ते नरकै ह्यते वणाश्रमविघातकाः ॥१२॥ कूष्माण्डी सर्वमेतेषां रक्षकः सन्नियोजितः । पादेन कालरुद्रस्य तस्याश्रमस्य संस्थिते ॥१३॥ अनन्तरूपशोभाढ्या वयं मूनि व्यवस्थिताः । पाताला पृथिवी शक्र मम मालेव मस्तगाः ॥१४॥
१. सम्युतम् क ग।
२. वाद्यापहा क ग ।
३. तस्य वा सख्यसे स्थितिः ग ।