________________
देवीपुराणम्
मनोहरम् ॥ १८ ॥
वन्द्रनील वैदूर्य - प्राकारैः सर्वतोऽन्वितम् । कालाग्निनरकान्ते तु पुरं कालस्य संस्थितम् ॥ १६॥ पंचाशल्लक्ष विस्तारं समन्तात् परिवर्तुलम् । जाम्बूनदमयैर्हयैः खचितं रत्नधातुभि ॥ १७॥ प्रमदा जन संहृष्टं नानावर्णसमावृतम्' । कामोन्मत्त प्रमत्तैश्च तज्जातीजनसंकुलम् । कालस्य भुवनं दिव्यं वृत्ताकारं वेष्टितं हेमप्राकार - र्योजनायुतमुच्छ्रितम् । प्राकारा बहिदण्डान्ते अक्षयं योजनायतम् ॥१६॥ अग्निजालैश्च निविडैर्भयदेः किंशुकप्रभैः । हरितालनिभा ज्वालाः सिन्दुरा गैरिकप्रभाः ||२०|| श्रत ऊर्ध्व प्रजज्वालाः सुवातोद्धूत' भास्वराः । वीचितरन्ग कल्लोल ज्वालामालाकुलान्वरम् ॥२१॥ प्रविस्तार प्रमाणेन योजनद्वयकोटयः । श्रष्टानवतिलक्षानि ज्वाला ऊर्ध्वं ततः शिलाः ||२२|| वज्रभूता महातप्ता तस्य तेजोनियामिका । चत्वारि कोटिमानेन कारणेन तु स्थापिता ||२३|| तस्योध्न भवेत् किंस्वित् कोटयश्चत्वारि वासव ||२४||
एवं कामाग्निरुद्रस्य माहात्म्यं कीत्तितं मया । श्रवणात् सर्वपापानि शमन्ते कालजान्यापि ॥ २५॥ इति श्री देवीपुराणे कालाग्निरुद्रमाहात्म्यं नामैकाशीतितमोऽध्यायः ।
१. ख पुस्तके नास्ति । ४. प्रवृत्तास्ता ग ।
२. अन्तरं ग ।
३. सुवा चोद्धूत ग ।
५. श्राद्ये देव्यवतारे कालाग्नि रुद्रपुर कथनम् क ग
२६६
ॐ