________________
एकाशीतितमोऽध्यायः।
शक्र उवाच । भगवस्तव वाक्यानां न तृप्तिर्भवते मम । कालाग्निपार्थिवं मानं श्रोतुमिच्छामि तत्त्वतः ॥१॥
भगवानुवाच । नहि पार्थिवद्वीपेषु मेरुपृष्ठेऽपि वासव। भोगाह्लादकता नृणां यथा पातालवासिषु ॥२॥ येषु न कालरुद्रस्य नानास्त्रीशतसंकुलाः । विचित्रहर्म्यविन्यासाः कूटस्य मेरुपृष्ठतः ॥३॥ सा एवं कालरुद्रस्य तनुरुपेण संस्थिता । सा परा शिवभावेन · परमपददायिका ॥४॥ तस्य युगसहस्त्रान्ते ब्रह्माद्यानां भयंकरन् । तं विद्धि कालरुद्रति सौम्यरूपं सदा शिवम् ॥५॥ कालाग्नि धामनं लक्षं योजनानां प्रमाणतः । अर्धेन उच्छ्रयस्तस्य पादाः पादेन वासव ॥६॥ सिंहरूपा महाघोरा महानका महाबला । कालाग्निरुद्ररूपो यो बहुरुद्र समावृतः ॥७॥
__ अनन्त पद्मरुद्रश्च धातारः कारणीश्वरः ॥८॥ दारुणोऽग्निरुद्रश्च च यमहन्ता भयान्तकः । लोहितः क्रूरतेजात्मा घनो वृष्टिबलाहकः ॥६॥
विद्य तश्च न शीघ्रश्च प्रसन्नः शान्तिसौम्यक् ।
सर्वज्ञो विविधो बुद्धया तिमान् दीप्तिसुप्रभः ॥१०॥ एते रुद्रा महात्मानः कालिकाशक्तिबृहिता । संहरन्ति समस्तेदं ब्रह्माद्य सचराचरम् ॥११॥ कालग्निभुवनीशोऽयं शतकोटिभिरावृतम् । तस्या पुरस्य विस्तारः शतकोटिसुवर्तनम् ॥१२॥ देवगन्धर्वसिद्धानां तत्र भोगाः सुदुर्लभाः। पूर्वोत्तरपरा भक्तिर्याम्यान्तरस्थिता परा ॥१३॥ अनलानिल वाच्या च निऋताशा न चापरा । एतेषां मध्यतो राजन् कालरुद्रस्तु शोभते ॥१४॥ पंक्त्याकारैः पुरैः सर्व कटकं तस्य संस्थितम् । समन्तादिष्टिधवलं प्राकारात्तोलगोपुरैः ॥१५॥
१. तत्त्वरूपेण क। २. तस्य यद्ध सहं तेजो ब्रह्माद्यानां क्षय कारणम् क ग । ३. बहुकोटिभिरावतं क ग। ४. सुवर्धनम् क ग । ५. तं भुवनं क ग ।