SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् २६७ भवते सृजते. शक्र या सा परमकारिणी' । योगनिद्रा महामाया सर्वाद्या न व्यवस्थिता ॥२७॥ स्थापिता परमेशेन यस्मिन् काले तदुच्यताम् । लब्धं त्रिंशत् सहस्राणां शतानि नव एव च॥ तस्य मां भूतभूतस्य कालस्य सुरसत्तम ॥२८॥ तस्मिन् सा पूजिता देवी ब्रह्मणा मनुरुपिणा । स्वायंभुवतनुर्भूत्वा जगतः स्थितिकारणे ॥२६॥ तेन ज्ञातानि नामानि ते च द्वीपा सरिद्वरा । पातालस्थितयः शक्र भवन्ति च ब्रजन्ति च ॥३०॥ तथापि मां कृता माया मोहनी सुरजन्तुषु । अनेककालभूतं यदद्यैव प्रतिभाषते ॥३१॥ इति श्री देवीपुराणे देव्यवतारे कालभावव्यवस्था नामाशीतितमोऽध्यायः । १. परमकारण क। २. आद्ये देव्यवतारे कालभाव व्यवस्था क ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy