________________
२६६
अशीतितमोऽध्यायः
तस्य राजस्य देवेन्द्रः पृच्छते गरुडध्वजम् । रक्षणाय समस्तस्य दिव्यस्य स हिते रतः ॥१३॥ प्रणम्य तं जगन्नाथं विष्णु कमललोचनम् । प्रपृच्छति समस्तस्य ब्रह्माद्यस्य च कारणम् ॥१४॥
शक्र उवाच ।
जयानन्तु महाबाहो सर्वदेवनमस्कृत । एकमूत्तिस्त्रिमूत्तिस्तु पीतवासो जगत्प्रियः ॥१५॥ सर्वव्यापि महाकाय स्थलभावानुचारकः' । परावर परावस्तु कारणात्मन् नमो नमः ॥१६॥ प्रकृतिस्थं च भावेश विकृतिख्ययः प्रभुः । चिन्त्याचिन्त्यप्रमेयश्च कालकालनहेतवः ॥१७॥ धर्माधर्ममहाभाग भावाभावनमो नमः । महदादि गुणावास सर्वगुणविजितः ॥१८॥ श्रूयसे स्तवसे त्वञ्च वेदसे वेदको भवान् । सम्पूज्यसे पूजको नाथ सर्वगः सर्वकृत्तिभूः ॥१६॥ अविनाश विनाशित्वे पार्थिवादिप्रयोजने । त्वं भवान् कारणाभाव परापर नमोस्तु ते ॥२०॥ हृषीकेश गदाधारिन् महादनुकुलान्तक । महागदासिधाराय पृच्छामि जगद्धेतवे ॥२१॥
एवं स्तुतस्तदा राजन् विष्णुः प्रोवाच याच्यताम् । यत् ते मनसि वलत ददामि ब्रूहि वासव ॥२२॥
शक्र उवाच ।
भगवन् कि परा भक्तिः कस्य वा क्रियते सदा। कस्मिन् द्वीपे स्थितौ पुंभिर्यष्टव्या सा परापरा ॥२३॥
श्री भगवानुवाच । एकस्मिन् मे दिने शक्र ब्रह्मा यान्ति चतुर्दश । तिसृणां त्वं च तत्संख्या ब्रह्माहेन पुरन्दर ॥२४॥ एवं वर्ष शते पूर्णे योगनिद्रा परापरा । तस्मिन लीलयाम्यहं शक्र पुनरेतत् सृजामि च ॥२५॥ एवं ते च दिनाः पक्षाः मासातव तथायने । स ते कालं च कल्पं च महाकल्पं तथैव च ॥२६॥
१. आमुभव ग।
२. महामाप ग।
३. सर्वक्षत्प्रभु ग सर्वकृत्प्रभुः क।
४. ग जहे तवे ग ।