SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ अशीतितमोऽध्यायः। विद्यश्वर उवाच । कथं देव्याः सदा पूजा तद्भक्त गुहपालकैः । कर्त्तव्या सिद्धिमिच्छद्भिः दृष्टादृष्टफलाथिभिः ॥१॥ अगस्त्य उवाच । साध्विदं यत्त्वया प्रश्नं कृतं वत्सेश्वरप्रियम् । तदहं निखिलं वक्ष्ये तब भक्तस्य विद्यया ॥२॥ देव्या भक्त : सदा देवी सर्वगा सर्वसंश्रिता' । दृष्टव्या नागगुल्मेषु तृणपक्षिसरीसृपे ॥३॥ द्विज-अन्त्यज जातिषु दुःखितेषु सुखेषु च । सूक्ष्मासूक्ष्म विशिष्टेषु सुरभीष्वसुरभीषु च ॥४॥ न क्रुष्टः क्रोधमागच्छन्न च पूजा सुकृष्यते । तृण हेम विशेषेण न लोभो न च कामिता ॥५॥ परदार परस्वादेर्वाच्या मनकर्मभिः । यस्य नोत्सहते राजन् तस्य देवो न दूरतः ॥६॥ भूषितोऽपि वरं देवं किं वने निवसन् नृपः । सकामेनैव सिद्धिः स्यान्निष्कामस्य गृहं वनम् ॥७॥ यस्तु सर्वप्रजापालः . सर्ववर्णाश्रमेज्यकः । स्वेन वर्त्मनि वर्तेत स दुर्गा शक्यमीजितुम् ॥८॥ राजोवाच । यद्येवं वर्णजातीनां देवी सर्वत्र संस्थिता । तदहं श्रोतुमिच्छामि प्राश्रमाणां च पालनम् ॥६॥ अगस्त्य उवाच । पूर्व देवेन ब्रह्माय शूलिना कथिता किल । श्रुता ते मनुदक्षाय-भृगुमित्रोऽथ काश्यपैः ॥१०॥ तथा मयापि तेभ्यश्च यथा प्राप्ता तथा तव । कथयामि महाराज देव्या भक्तिपरो भवान् ॥११॥ यथा प्रासोत्पुरा राजन् महाकल्पे नराधिपः । तथा पालय प्रजाः सर्वा स्वे स्वे धर्मे व्यवस्थिता ॥१२॥ ३. सर्वसंस्तुता ग । १. विश्वेश्वर उवाच क। ४. ग पुस्तके नास्ति। ६. धर्मनि ग। २. क पुस्तके नास्ति । ५. गृहे बलम् ख । तृणं धनम् ग। ७. काननम् ख । पेलनम् ग। ८. सुराड् प्रियः ख सुधाधिपः ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy