________________
एकोनशीतितमोऽध्यायः
सानुदिनं सदा भक्त्या देव्याः सम्मार्जने रता । द्वार शोभां पथिशोभां देव्यामुद्दिश्य कारयेत् ॥५॥ सप्रपच्छ तदा राज्ञीं किमेतद्देवि त्वं सदा । सम्मार्जुनपरा नित्यमन्यकर्म पराङमुखा । एतन्नो ब्रूहि तत्त्वेन राज रुपं पतिप्रिया ॥ ६ ॥ कुंकुमोवाच ।
२६४
न हि मेऽस्त्यपरा भक्तिर्यथा संमार्जने शृणु । तथाहं कथयिष्यामि पुराकम् कृतं मया ॥७॥ पूर्वमासं हं विल्वा पतन्ती वियच्चारिणी । तत्राहं भ्रममाणा तु गता किष्किन्ध्यपर्वतम् ॥८॥ तत्र देवी निराधारा ह्याकाशे तिष्ठते सदा । केनापि पूजने दत्तं भक्त पात्रं सुपूजितम् ॥६॥ मयापि क्रममादाय गृहीतुमुद्यमः कृतः । क्रमान्नतं गृहीतन्तु पक्षेः पांशु निवारिता ॥१०॥ पूर्णदत्त क्रमान्नेव ग्रहीतुं पांशु माज्जिता । तावत् तस्मिन् समायातः पूजको देवलो द्विजः ॥ ११ ॥ वयं नष्टा भयात् कालान्मृता जाता वसोगृहे । चन्द्रमित्रस्य तेनैव दत्ताहं प्रथमा वधूः ॥ १२ ॥ राज्ञी त्रिशत्सहस्रानामभूदहं तत्प्रभावतः । प्रकामा देवतागारे पक्षपातस्य मार्जनात् ॥ १३ ॥ तेन राज्ञी चेयं याता कामान् सम्मार्ज्जनेन किम् । फलं भवति यद्ददेव्या तन्न वेदमि यथोच्यताम् ॥१४॥
एवं पूर्वं कथेच्छम्भु र्भार्गवस्य प्रपृच्छतः । ब्रह्मणा देवराजस्य मयापि च तवाखिलम् ॥ कथितं जीर्ण संस्कारे सम्मार्जनफलं नृप ॥१५॥
इति श्री देवीपुराणे सम्मार्ज्जनमाहात्म्यं नाम एकोनाशीतितमोऽध्यायः
१. महाग ।
३. भूममादाय ग ।
२. सुपूरितम् क गपुस्तकेनास्ति । ४. वयं वसुमपा कालात् क ।
1
५. प्राद्ये सम्मार्जन महात्यम क ग ।