SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् . २६३ इन्द्र उवाच । कथितं शंकरोमाख्यं ब्रतं मे मनतुष्टिदम् । श्रोतुमिच्छाम्यहं तात विष्णु शंकर संज्ञितम् ॥१॥ __मनुरुवाच । यथा उमेश्वरं तात तथा कार्यमिदं व्रतम् । किन्तु पीतानि वासांसि केशवाय प्रकल्पयेत् ॥२॥ गन्धं पुष्पं तथा धूपं सुगन्धञ्च जनार्दने । कार्य पूजानुसद्भावं लडडूका दधिपायसम् ॥३॥ एवं तौ पूजयित्वा तु प्रतिमौ स्थण्डिलेऽपि वा। आहूय ब्राह्मणौ वत्स वेद सिद्धान्तपारगौ ॥४॥ यती वा व्रतसम्पन्नौ जटा काषायधारिणौ । पूजयित्वा विधानेन शूलपाणि-जनार्दनौ ॥५॥ क्षमाप्य विधिना वत्स सर्वकामप्रसाधको । हेमं तु दक्षिणा विष्णो मर्मोक्तिकं शंकराय च ॥६॥ दत्त्वा प्रवजतो लोको क्रमाद्दे हक्षये ब्रजेत् । भुक्त्वा भोगाँस्तथा शक्र इहायातो नृपेश्वरः । कुले भवति भूपालः सुखपुत्रायुसंयुतः ॥७॥ पूर्वभावाद् भवेद्भक्तिः शिवविष्णुप्रसाधको । योगं प्राप्य परं याति यत्तु स्थानमनामयम् ॥८॥ ___इति श्री देवीपुराणे शंकर नारायणव्रतम् । अनेनैव विधिना कार्य लक्ष्मी नारायणब्रतं' । ब्रह्म गायत्र्यजं 'तात चन्द्ररोहिण्यजं पिवा । भाववित्तानु रुपेणसत्त्व मात्रफलं लभेत् ॥१॥ शक्र उवाच । सम्मार्जनफलं देव सूचितं न प्रक्रीतितम् । तदहं श्रोतुमिच्छामि मानवानां हिताय वै ॥२॥ ईश्वर उवाच । वाराहे तु पुरा कल्पे' मनो रैवतके तथा। • तस्मिन्नासीत् महीपाल चन्द्र मित्र नृपोत्तम ॥३॥ पत्नी च कुंकुमा नाम अयुतं त्रय चोत्तमा। लावण्यरुपसम्पन्ना चन्द्रकान्तिसमप्रभा ॥४॥ १. शंकरम् ग २. भोजयेद्विधानेन ग । ३. दत्त्वाऽनुप्रपतौ क। ४. शंकर नारायण ब्रतम् क ग। ६. सावित्राजं ख। ७. सत्य क ग। ९. चन्द्रमिन्द्र नपोत्तमे ख ग । १०. शतप्रभा ग । ५. लक्ष्मीपर्णा वतम ख । ८. काले ख।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy