________________
२६२
एकोनाशीतितमोऽध्यायः
सितश्लक्ष 'तथा रक्त शुभे कार्ये तु वाससी । न केशे स देशे वत्स देवदेवीप्रसादके ॥६॥ स्नात्वा उमेश्वरं पूज्यं स्थण्डिले प्रतिमासु वा । हुत्वा दिशो बलि दत्त्वा वितानावथ कारयेत् ॥७॥ चतुरस्र चरि गोमयेनोपलिप्यते । चतुष्कं शालिगोधूमै वर्णकैरुपशोभ्यते ॥८॥ दीपमालान्वितं कृत्वा दाम्पत्यं भोजयेत् ततः । शंकरोमां सदाध्याय शक्रायं शुभचितम् ॥६॥ मदचन्दन काश्मीर कर्पूरागुरुधूपितम् । जाती पुन्नागमन्दार शतपत्र क्षुमालितम् ॥१०॥ क्षमाप्य युग्मं संवीतं त्रिधा कृत्वा प्रदक्षिणम् । सुखालापेन सम्पूज्य ध्यायन्ती तमुमेश्वरम् ॥११॥ प्राचम्यायपाद्य ते ददयात् गंगोदकं तथा । सहिरण्यं सरत्नं च पुनर्दत्त्वा क्षमापयेत् ॥१२॥ प्रीयतां मे उमेशं तु सर्वदेवपति पतिम् । अनेन प्राप्नुयान्नारी अवियोगं सुरेश्वर ॥१३॥ सौभाग्यमिहजन्मेऽपि पुत्र राज्यसुरवानि च । मृता याति परं स्थानं शंकरोमा अधिष्ठितम् ॥१४॥ तत्र भोगान् महान् भुक्त्वा चेहायाता महाकुले । समृद्धं वृद्धिसम्पन्ने पति विन्दति शोभनम् ॥१५॥ लावण्यरुपसम्पन्ना भर्तुःश्रेष्ठा सदा भवेत् । श्लाघनीया समस्तस्य विभवान्तः पुरस्य च ॥१६॥
सुपुत्रा जीववत्सा च आधिव्याधिविज्जिता। भुक्त्वा यथेप्सितान् कामान् वृद्धत्वे पतिपूर्विकाम् ॥१७॥ दिवं याति सुरश्रेष्ठ शंकरोमाच्चिका स्त्रियः ।
नरो वानेन विधिना नारीनां भवते पतिः ॥१८॥ समृद्धः सर्वभूतानां पतित्वमुपगच्छति । शंकरोमावतं शक्र लक्ष्म्या पूर्वमनुष्ठितम् ॥१६॥ रत्या देव्या अरुन्धत्या रोहिण्या सुरसत्तम । कृतमासीत् सुखार्थन्तु ताश्च भुञ्जन्ति तत्फलम् ॥२०॥ उमामन्त्रेण चोमेशं ईशमन्त्रेण शंकरीम् । पूजिता सर्वकामानि प्रयच्छत्यविचारणात् ॥२१॥
इति श्री देवीपुराणे उमामहेश्वर व्रतम् ।
१. शुभमंगलम् ग ।
३. पात्रं ग।
२. सिते शुक्ले ग। ४. गंधोदकम् ग। ७ . नारायणेन क।
५. धन ग ।
६. भाग्य श्रेष्ठा क।
८. उमामहेश्वर वतम् क ग ।