SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ एकोनाशीतितमोऽध्यायः । गौरी काली उमा भद्रा दुर्गा कान्तिः सरस्वती । मंगला वैष्णवी लक्ष्मीः शिवा नारायणी क्रमात् ॥१॥ मार्गतृतीयामारम्य पूर्वोक्त लभते फलम् । अर्धनारीश्वरं रुद्रमथवा उमाशंकरम् । पूजयेद्विधिवन्नारी न वियोगमवाप्नुयात् ॥२॥ अथवा विष्णुरूपेण पूजयेच्चेश्वरं . सदा । शंकरं'वामभागस्थं सर्वकाममवाप्नुयात् ॥३॥ मार्गशिरादौ केशव नारायण माधवान् पूजयेत् । धूप लग्दीपाद्य रुपोष्य सम्पूज्य दक्षिणाभि नमिभिः ॥४॥ अश्वमेध नृपसूयवाजपेयमतिरात्र उक्तमथाग्निष्ठोमो गवांमेधः पुरुषमेध सौत्रामणि । पञ्चयज्ञा हेमगोलक्षं सर्वे मखा स्थाप्यन्ते नित्यं स्मरणार्चनात् नाम द्वादशी ॥५॥ ___ इति श्री देवीपुराणे नामद्वादशी ३ । __ मनुरुवाच । यदीच्छति शुभं नारी ईहजन्मे परत्र च । तदा कुर्याद्विज श्रेष्ठ विष्णुना कथितं ब्रतम् ॥१॥ सर्वपापहरं पुण्यं सर्वकाम फलप्रदम् । उमामहेश्वरं नाम कर्त्तव्यं विधिना यथा ॥२॥ प्रौष्ठाश्विनेऽथवा माघे भाग्ये मृगेऽथवा मुने । मैत्रे शाक्रेऽथवा कार्यमष्टम्यां वाथ शांकरे ॥३॥ पूर्वेऽहनि सपत्नीकं दाम्पत्यं सुखसंगतम् । एकभार्य नरं वत्स सर्वधर्मब्रतान्वितम् । अामन्त्र्यममरोमेशं प्रातः कार्यमनुग्रहम् ॥४॥ मुदान्वितस्तदा कुर्यात् कलि द्वन्द्व विजितः । मधु चान्नेन भोज्यं तु क्षीरेज्य यवशालिजम् ॥५॥ १. शंकरे क। ४. शुभान् ग। २. उमाई शिवाधान् क ग । ५. मासे मृगे ख । ३. इत्याद्य न महादशी क । ६. वक्र ख।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy