SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २६० अष्टसप्ततितमोऽध्यायः सौत्रामणि सहस्रस्य फलमष्टगुणं लभेत् । श्रावणे'शर्व नामानमिष्ट्वार्फ निशि भक्षयेत् ॥१६॥ वर्ष कोटिशतं साग्रं रुद्रलोके महीयते । मासे भाद्रपदेऽष्टम्यां त्र्यम्बकं नाम पूजयेत् ॥१७॥ प्राशनम्बिल्वपत्राणां मंत्रदीक्षा फलं लभेत । ईश्वरमाश्वयुजे मासि पूज्यान्ते तन्डुलोदकम् ॥१८॥ पौण्डरीकस्य यज्ञस्य फलमष्टगुणं लभेत् । कात्तिके रुद्रनामानं संपूज्य प्राशयेद्द धि । __अग्निष्टोमस्य यज्ञस्य फलमष्टगुणं लभेत ॥१६॥ ' वर्षान्ते भोजयेद्विप्रान् कन्यका अबलास्तथा । पायसं घृतसंयुक्त मधुना संपरिप्लुतम् ॥२०॥ शक्त्या हिरण्यवासान्सि भक्त्या तेम्यो निवेदयेत् । निवेदयीत रुद्राय गाञ्च कृष्णां पयस्विनीम् ॥२१॥ वर्षमेकं चरेद्भक्त्या नैरन्तर्येण यो नरः । कृष्णाष्टमी व्रतं भक्त्या तस्य पुण्यफलं शृणु ॥२२॥ सर्वपापविनिर्मुक्तः सर्वैश्वर्य समन्वितः। वसेच्छिवपुरे दिव्यं न घेहायाति कहिचित् ॥२३॥ पुण्येष्वेतेषु सर्वेषु विषुवद् ग्रहणादिषु । दानोपवास होमाद्यमक्षयं जायते कृतम् ॥२४॥ इति श्री देवी पुराणे कृष्णाष्टमीव्रतं नामाष्टसप्ततितमोऽध्यायः । ४ . १. श्लोक चतुष्टयं नास्ति ख पुस्तके। ३. यज्ञस्य प्रोतुमष्टां क। २. मद्व क । ४. आधे देवीपुराणे कृष्णाष्टमीब्रतम् क ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy