________________
अष्टसप्ततितमोऽध्यायः ।
मनुरूवाच । अतः परं महापुण्यं सर्व काम प्रसाधकम् । ब्रह्मणा सनकादीनां भक्त्या यत् प्रतिपादितम् ॥१॥ तदहं संप्रवक्ष्यामि व्रतानां प्रवरं व्रतम् । सर्व लोकोपकाराप शृणुष्वावहितो द्विज ॥२॥ उपवासात्परं भक्ष्यं भक्ष्यात्परमयाचितम् । अयाचितात्परं नक्त तस्मान्नक्त न वर्तयेत् ॥३॥ देवस्तु भुक्तपूर्वाह्न मध्याह्न ऋषिभिस्तथा । अपराह्न पितृभिर्भुक्त संध्यायां गुह्यकादिभिः ॥४॥ सर्ववेलामतिक्रम्य नक्त भुक्तमभोजनम् । वामाचारो महादेवो'नक्त नोर्ध्वरते पुमान् ॥५॥ हविष्यं भोजनं स्नानं सत्यमाहारलाघवम् । अग्निकार्यमधः शय्या नक्तभोजी समाहरेत् ॥६॥ एवं विधिः सदाचारो देवदेवी प्रपूजकः । कृष्णाष्टम्यां प्रयत्नेन कृत्वा नक्त विधानतः ॥७॥ मासस्य मार्ग शीर्षस्य शंकरं देवमर्चयेत् । पीत्वा शक्त्या च गोमूत्रमनाहारो निशि स्वपेत् ॥८॥ अतिरात्रस्य यज्ञस्य फलमष्टगुणं लभेत् । एवं पौषेऽपि संपूज्य शंभुनामानमीश्वरम् ॥६॥ कृष्णाष्टम्यां घृतं प्राश्य वाजपेयाष्टकं लभेत् । माघे महेश्वरं नाम कृष्णाष्टम्यां प्रपूजयेत् ॥१०॥ निशि पीत्वा तु गोक्षीरं गोमेधाष्टकमाप्नुयात् । फाल्गुने च महादेवं सम्पूज्य प्राशयेत्तिलान् ॥११॥ राजसूयस्य यज्ञस्य फलमष्टगुणं लभेत् । चैत्रे तु स्थाणुनामानं कृष्णाष्टम्यां प्रपूजयेत् ॥१२॥ यवाँश्च भजितानद्यात् सोऽश्वमेधफलं लभेत् । वैशाखे शिवनामानमिष्ट्वा रात्रौ कुशोदकम् ॥१३॥ पीत्वा पुरुषमेधस्य फलमष्टगुणं लभेत् । ज्येष्ठ पशुपति पूज्य गवां शृंगोदकं पिवेत् ॥१४॥ गवां कोटिप्रदानस्य यत्पुण्यं तदवाप्नुयात् । प्राषाढे चोग्रनामानं पंचगव्यं तु प्राशयेत् ॥१५॥
१. वामचारी महादेवी क। ३. ह्य वम् ख । ५. अति मंत्रस्य यज्ञस्य ख।
२. समाचरेत् क । ४. शांत्वा क । ६. यावाश्च भूजितान् क .