SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् ३०३ कालेन मृत्युमापन्नो रोचनो राक्षसाधिपः । पिंगाख्यो दशकोटीनां महाबलपराक्रमः ॥५०॥ अनरो अमरः शक्र ब्रह्मकल्पायुजीवितः । तेन दीपप्रभावेन शर्कराधिपतिर्महान् ॥५१॥ दुष्टभावोऽपि सञ्जातः किं पुनस्तत्समाश्रिताः । भवन्ति तत्र राजेन्द्र ब्रह्म लोक निवासिनः ॥५२॥ एतत्ते सर्वमाख्यातं प्रसंगेन सुराधिप । शेषान् नागाँश्च वक्ष्यामि पाताले ये तु कोत्ति ताः ॥५३॥ पौण्डरीकञ्च दुष्प्रेक्ष्यं श्वेतभद्र वयोरगाः । पिंगाख्यो मेघनादश्च तथा घोरश्च राक्षसाः ॥५४॥ रसातले जरासन्धो वैरोचनो वलिस्तथा । कोटिधा यो मया बद्धस्तव कार्येषु सत्वरी ॥५५॥ पुनः स्वर्ग गमिष्यामि पुनस्त्वं शंसिता प्रभुः । ऐरावतो महानागः पिंगमश्वतरं तथा ॥५६॥ - मारीचः कुम्भकर्णश्च माल्यवाँस्त्रय राक्षसाः । पातालाः सप्त विख्यातास्त्रिषष्टिभुवनेश्वराः ॥५७॥ वृत्ताकारानि पातालाः शत कोटिप्रविस्तराः । वृत्त त्रयविभक्तास्ते दैत्य पन्नग राक्षसाः ॥५८॥ कल्पे कल्पे विनश्यन्ति तन्नामानो भवन्ति च । न हि संख्या भवेच्छक मृता जाता पुनः पुनः ॥५६॥ उपपातालमष्टन्तु सौवर्ण तु निबोधत । यत्रासौ भगवान् देवो अर्धनारीश्वरः प्रभुः ॥६०॥ वयं च तत्र क्रीडामो ब्रह्मा वेदविदांवरः । द्वितीय इव कैलाशे यत्र भोगा मनोरमाः ॥६१॥ यत्रासौ भगवान् देवो वरदो हाटकेश्वरः । तत्र हेममयी भूमि बज्रवैदूर्य चित्रिता ॥६२॥ विचित्रा धातुभिर्भाति देवासुरमनोहरा। सर्व-वृक्षतमाकीर्णा सदार्त्तववनस्पतिः ॥६३॥ सुगन्धफलपुष्पाणां गन्धद्रव्यसमन्विता । सुगन्धिः शीतलो वायुविहरेन्मनतुष्टिदः ॥६४॥ हेम प्रासाद प्राकारास्तरवोद्यानकाननाः । सरित्सर्वतडागैश्च दीर्घाकैरुपशोभितम् ॥६५॥ स्फटिकः शैलसोपामै मुक्ताफलसमन्वितम् । भान्ति अंभांसि तान्द्र स्तु नीलरक्ताम्बुजः सितैः ॥६६॥ कुसुमोत्पलसंच्छन्नं ते च कार्तस्वराम्बुजा । तटे वृक्ष लतागुल्म कोषोत्पलपक्षिणः ॥६७॥ १. शंकराधिपति ख। २. सत्त्वधी ग। ३. सकार्तववनस्पति ग। ४. सर्वद्रव्य समन्विता क ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy