SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् बायुवर्ण गत वर सविसर्गन्तु पंचमम् । चतुर्थ: कीर्तितं वत्स सर्व्वकाम समृद्धये ' ॥ ३४ ॥ वेदादयो मतिमन्त्रस्था विद्या सावाख्यरा मुने । सकृदुच्चरिता वत्स मृत्युहा विधिना भवेत् ॥३५॥ नया स्नापिता देवी सर्व्वकामान् प्रयच्छति । यागे वा रुद्रके याज्या पद्म े वा ग्रहनाशिनी ॥ ३६॥ प्रत्यनुगं षट्कंतु द्वयक्षरं प्रथमं हृदि । होमं समस्तमुच्चार्य कार्यं स्वाहांतिकं सदा ॥३७॥ नारद उवाच । कलशानां प्रमाणन्तु जपहोमेन कीर्तितम् । दिनेषु केषु कर्त्तव्यं कथयस्व प्रसादतः ||३८| मार्कन्डेय मुनिश्रेष्ठ पुराणे समुदाहृतम् । नर्मदायां सरस्वत्यास्तैर्दानक्ष मुनेत्र तु ॥ ३६ ॥ चर्तुदश्याममावश्या 'मष्टम्यां नवमी तथा । द्वादश्यां पौर्णमास्यान्च संक्रान्तौ ग्रहणादिषु ||४०|| व्यतीपात दिनच्छिद्र चैत्रादिषु च पर्व्वषु । मासान्ते ऋतुवर्षान्ते गूरुमन्ददिनेषु च ॥४१॥ तेषां सप्तमयोगेषु क्रतुवेदे करोति वा । सप्तम्यां सोपवासेन अष्टम्यां पूजनं महत् ॥४२॥ जपहोमं प्रकर्त्तव्यं पूजयित्वा तु मंगलाम् । क्षीरस्नानन्तु यः कृत्वा कुन्डतोयेन स्नापयेत् ॥४३॥ कुम्कुमारुकर्पूरमदेन च विलेपयेत् । सुगन्धधूपनैवेद्य वासांसि स्वजदर्पणम् ॥४४॥ दत्ता देव्यास्ततः पूजां सर्व्वकामानवाप्नुयात् । ईहलोके भवेद्र्धन्यो धनपुत्रायुसंयुत ॥४५॥ देहान्ते शिवलोके तु मोदते चोत्तमं सुखम् । एवं च विधिना देवीं मन्त्र पूतेन वारिणा ॥ ४६ ॥ स्नात्वा स्नापयते विप्र स भवेदमरवल्लभः । यथा वयं यथा विष्णुर्यथा देवो महेश्वरः ॥ ४७॥ तथा संपूजनीयस्ते श्रविचारेण भावितः । तत्रस्ता देवताः सर्वा कुन्डे सन्तर्पिता सुराः ॥ ४८ ॥ पितृणां भवते प्रीतिस्तज्ज्वलने अनुत्तमा । यस्तत्र कुरुते श्राद्धं स्नात्वा पात्रविशेषतः ॥ ४६ ॥ स कृत्वा दश वर्षाणि तेन सन्तर्पिता पितृन् । दत्वा दानं तथा कोटि गुणं फलमवाप्नुयात् ॥५०॥ जंप होम फलं तत्र अनंतं भवते कृतम् १. प्रधिने ग । २८३ गव्यूतिमात्रं स्मृतं क्षेत्रं सर्वपाप प्रणाशनम् ॥ ५१ ॥ प्रथोत्तरं विशेषेन मदीय शिव सन्निधौ यात्राकाले पुरावृत्तमितिहासं निबोधत ॥५२॥ २. संज्ञकु क ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy