________________
२८४
षटसप्ततितमोऽध्यायः
वेत्रवत्यास्तटे रम्ये वटवृक्षो महामुने । तत्र कपोत संघानां राजा प्रासीन्महान् द्विजः ॥५३॥ वैदिशे ब्रह्मा वत्स सुहृत् स्त्री वालघातकः । महाकर्म विपाकेन दुष्कृतेन च प्रावृतः ॥ ५४ ॥ नानायोनिगतः पापी कथंचित् पापपर्ययात् । मृतो देहं गतं तस्य धात्री भूतं सुपर्णवत ॥ ५५ ॥ तेन पक्षी भवेद्राजा स कपोत शतावृता । कालेन स गतः श्रुत्वा पुष्पाख्यं गिरि पर्वतम् ॥५६॥ तत्र कुन्ड गते वृक्षं समारुह्य सखीवृतः । क्रीडमानोऽपतत् तोये पंचत्वमुपगतञ्च सः ॥५७॥ विधूतपापमज्जन्तु संभूतः स शुको मुनिः ॥ ५८ ॥
शुकी गर्भे महावाही सर्वशास्त्रार्थ पारगः । देवी पूजारतो वत्स देवस्नानरतः सदा ॥ ५६ ॥ कर्म यज्ञ समायोगाद्देवलोकं गतश्च सः । शिवं लोकं समासाद्य शिववन्मोदते सुखी ॥६०॥ इति श्री देवीपुराणे कपोतकीर्त्तनं नाम षट्सप्ततितमोऽध्यायः' ।
१ . इत्याद्ये कपोत कीर्त्तनं क ग ।