________________
२८०
षट्सप्ततितमोऽध्यायः
तस्मादुद्धत्य यस्तोयं शिवलिङ्गाभिषेचनम् । करोति स पुमान् वत्स सर्व कामानवाप्नुयात् ॥१५॥ मयापि तत्र देवेशः स्थापितश्चोत्तरेण तु । विष्णुना निर्मलेशस्तु पश्चिमे गुरूणा परम् ॥१६॥ दक्षिणेन तथा देवं कुजेन ईशगोचरे । मातृणां मण्डलं यत्र नन्दिना पूजितं पुरा ॥१७॥
अन्येऽपि ये महादेवं चच्चिकां वा महोदयाम् ॥१८॥ भानु नारायणं वत्स मङ्गलान्तेन चाम्भसा । स्नापयन्ति महाभागा न ते प्राकृतमानुषाः ॥१६॥
ये पुनश्चच्चिकां कृत्वा प्रस्तरादि समुद्भवान् ।
तथा ये चाभिषिञ्चन्ति ते लभन्ते हितं फलम् ॥२०॥ मङ्गला रूपिणी देवी मातृभिः परिवारिता । ब्राह्माद्या दक्षिणे कार्या वैष्णव्याद्यास्तथोत्तरे ॥२१॥
ब्रह्मा विष्णुश्च रुद्रश्च प्रभामण्डल संस्थिताः ।
कुमारं गणनाथन्च ग्रहान् पीठाधःसंस्थितान् ॥२२॥ एवं कृत्वा मुनिश्रेष्ठ यत्र तत्रेजिता शिवा । प्रयच्छति परं लोकं पुष्पा) उभयात्मकम् ॥२३॥ सत्र भावानुरुपेण मृच्चित्रा धातु वार्भ जाः । कृत्वा यस्तेन तोयेन स्नापयेत् स्वामात्मनः ॥२४॥ जपहोमरतो ध्यानी भिक्षाशी अथ क्षीरथः । एकान्तरेण भक्तेन उपवास अयाचितैः। ॥२५॥
स लभेत हितान् कामान् यदा गूढवतो भवेत्
विद्या जप्तेन तोयेन अयुतं वा प्रयच्छति ॥२६॥ शिवायाः संभवेद् वत्स सर्वपापविज्जितः । देव्याः पुत्रः सदा लोके दर्शनाच्चाघ नाशनम् ॥२७॥ कलशा हेमधातूत्था मृन्मया वा सुलक्षणाः लोक कुम्भ चतुर्थांशाः कर्तव्याः स्नापना शिवाः ॥२८॥ गृहे षोडशभागेन जपध्यानरतस्य च । प्राचार्य्यस्य सदा वत्स होमयुक्तिः प्रकीत्तिता ॥२९॥
नारद उवाच । विद्याहं श्रोतुमिच्छामि सर्वपाप प्रणाशिनीम् । यथा स्नानं प्रकर्तव्यं देवी देवस्य वा विभो ॥३०॥
ब्रह्मोवाच । कथयामि मुनिश्रेष्ठ न देया अदीक्षिते क्वचित् । विद्या मृत्युन्जया नाम दशावरणसंस्तुता ॥३१॥ ब्राह्मणः षष्ठ वर्णन विष्णुनाः पचंम तथा । वाज्यनाद विलोमन्तु तेन तत् भेदयेन्मुने ॥३२॥ द्वितीयं भवते वर्ण विष्णु वर्णचतुर्थ तथा । वहम पंचमसंयुक्तं तृतीयं परिकीतितम ॥३३॥