________________
षट्सप्ततितमोऽध्यायः।
नारद उवाच । नर्मदायां मया तात श्रुतं स्नानफलोदयम् । तीर्थयात्रा प्रसङ्गन मार्कण्डेय-तपाश्रमम् ॥१॥ चतुर्मुखं महापुण्यं तथा माहेश्वरं वरम् । आमराकं गिरिश्रेष्ठं देवनद्याः फलोदयम् ॥२॥ वारणाख्यं महापुण्यं तथा पश्चिम सागरम् । जटा शैले महादेवं पञ्चमृत्युविनाशनम् ॥३॥ गङ्गाभाग्योदयं नाथ केदारं पर्वतोत्तमम् । नन्दादेवी गतन्देवं महादेवी महाफलम् ॥४॥ नैमिषं पुष्करं देवं तथा स्थानेश्वरं वरम् । कुरूक्षत्रं महापुण्यं सर्व पाप प्रणाशनम् ॥५॥ घटेश्वर महादेवं कौमारं दक्षिणार्णवे। रामेश्वरं शिवं देवं ब्रह्महत्याविनाशनम् ॥६॥ अविमुक्तञ्च काश्याख्यां मायापुर्य्या सुरेश्वरम् । एवं तीर्थानि देवेश महापुण्यफलानि च ।
श्रुतानि अघनाशाय शतशोऽथ सहस्रशः ॥७॥ अभिषेक प्रसङ्गन कुमारस्य महात्मनः । कात्तितं वैदिशे देशे भृङ्गारं दिवमुत्तमम् ॥८॥ जम्बूद्वीपस्य चैशान्यां तस्य पश्चिम दक्षिणे। वैदिशे चोत्तरे भागे सप्तगव्यूति संस्थितम् ।
. . कुण्डं शैलद्वयास्थं च महापुण्यं महोदयम् ॥६॥ विनायकानां शान्त्यर्थं शक्रस्य च महात्मनः । पुण्याभिषेचनं चक्रे पुष्पदन्तो गणोत्तमः ॥१०॥ नन्दिने मृत्युनाशाय शतसाहस्रमुत्तमम् । लडडुकानां ददौ यत्र तत् तीर्थ कथय प्रभो। लोकानां हितकामाय कलौ पापप्रणाशनम् ॥११॥
ब्रह्मोवाच । शृणु वत्स प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि । हिताय सर्वलोकानां सर्वपापशमाय च ॥१२॥ पुष्पदन्तो गणोपेतस्तपस्तप्येत् सुदारुणम् । पुष्पकान्तं गिरि वत्स अङ्गारेशस्य जायते ॥१३॥ यत्राण्डजः पुरा मग्नो मतो देवपुरं मुने । तस्य नाम्ना समाख्यातं तीर्थं पापप्रणाशनम् ॥१४॥