________________
पञ्चसप्ततितमोऽध्यायः ।
हिमवद्धेमकूटे च विन्ध्ये महेन्द्र पर्व्वते । वै दिशे उज्जयिन्ये वा महासेनेऽथ भूभृते ॥ १ ॥ गोपगिरौ महापुण्ये चित्रकूटेऽथवा मुने । कालञ्जरेऽथवा काश्यां पुष्पाख्ये वेद पर्व्वते ॥२॥ उज्जयिन्यामयोध्यायां दापयेदथ महेश्वरे । एतेषु पुण्यदेशेषु विषुवायणसङ्गमे ॥३॥ पुष्करे नैमिषे वत्स देया पञ्चमुखेऽक्षये । गिरौ धारा प्रदानेन ग्रहपीडा न जायते ॥ ४ ॥ बहुवक्रगते 'देहे वत्सवन्न भयं भवेत् । जन्माधानर्क्षपीडा वा दत्ता धारा व्यपोहते ॥ ५ ॥ जम्बूमार्गे सदा पूजा धारापातं विशिष्यते । सर्व्वकामानवाप्नोति नर्म्मदायां महामुने ॥६॥ धारादानेन गङ्गायां कालिन्द्याञ्च महाहदे । दत्त्वा विधानविहितां न भयं जायते क्वचित् ॥ ७ ॥ शनिसूर्य्यकृतां पीडां गुरुभौमां व्यपोहते । यथा पूजा विधानेन प्रति संवत्सरोत्थिताम् ॥८॥ पीडां निवारयेद्वत्स संवत्सरग्रहोद्भवाम् । मन्त्रजापात् सदा वत्स न भयं विद्यते क्वचित् ॥ ॥ एकान्ते दुष्टरहिते पापजन्तु विवजिते । धारा होमं प्रकर्त्तव्यं यथोक्तं श्रियमिच्छता ||१०|| जिह्वायां पातयेद्वारां न द्र ुतां न विलम्विताम् । सावधानेन मनसा मृत्युञ्जय नियामिताम् ॥११॥ मन्त्रयोगाद्भवेत् सिद्धिर्हष्टादृष्ट प्रसाधिका । ग्रहपूजा हरेत् पीडां त्रिविधामपि उत्थिताम् ॥१२॥ ग्रहाश्च त्रिविधाः प्रोक्ताः तेषां मन्त्रास्त्रिधामताः । प्रङ्गजा मूलमन्त्राश्च पिण्डाः पदगतास्तथा ।१३। होमकाले प्रयोक्तव्याः पूजाकाले तथैव च । एवं सिद्धिमवाप्नोति इह स्वर्गापवर्गकीम् ॥ १४ ॥ भावकाले क्रियायोगाद्धारायां लभ्यते मुने ॥ १५ ॥
धारादानं प्रकर्त्तव्यं यन्त्रपात्र घटादिभिः । नैमि ते नित्यहोमे च पूर्वैश्च कथितो विधि : ॥ १६ ॥ इति श्री देवी पुराणे निमित्तधारापरिच्छेदो नाम पञ्च सप्ततितमोऽध्यायः
1
१. वह्नि ।
२. निमित्तधारापरिच्छेदः क ग ।