________________
देवीपुराणम्
२७६
सूर्ये च शशिना ग्रस्ते तमोरूपे महामुने । नर्मदा तोयसंस्पर्शात् कृतकृत्या भवन्ति ते ॥१६॥ ये सूर्ये सहिकेयेन ग्रस्ते वैराजनं नराः । स्पृशन्ति अवगाहन्ति न ते प्राकृतमानुषाः ॥१७॥
स्नात्वा राजक्रतुं लेभे दृष्ट्वा गोदानजं फलम् । स्पृष्ट्वा गोमेधतुल्यन्तु पीत्वा सौत्राणि लभेत् ।
स्नात्वा वाजिमखं पुण्यं प्राप्नुयादविचारणात् ॥१८॥ रविचन्द्रोपरागे तु अयने चोत्तरे तथा । एवं गङ्गापि द्रष्टव्या तद्वद्देवी सरस्वती ॥१६॥ शिवादित्यफलं यच्च मण्डले समुदाहृतम् । सग्रहे मङ्गलायोगे तदपि प्राप्नुयान्नरः ॥२०॥ ऊषरारण्य-क्षेत्रेषु पुण्यं यत् समुदाहृतम् । तदत्र काल माहात्म्यादुपरागे समाधिकम् ॥२१॥ यो वा पाहुत्य तोयेन विधिना अभिषेचनम् । समन्त्रेणैव पूतेन तस्य पुण्यं ततोऽधिकम् ॥२२॥ प्रात्म वित्तानुसारेण पात्रैस्तैजस पार्थिवैः । वााः शैलरथ विप्र फलं प्राप्नोत्यनिन्दितम् ॥२३॥ ये वा वै मत्तिका तस्मिंस्तीर्थे प्राहृत्य च मुने । प्रातः प्रातः समुत्थाय वन्दयन्ति नरोत्तमाः ।
ते सर्वे पापनिर्मुक्ता संवन्ति विगतामयाः ॥२४॥ फल पुष्पोपहारेण यो वा तस्मिन् रवीश्वरम् । स्नात्वा संपूजयेद् विप्र स भवेद्विगतामयः ॥२५॥ मन्त्रपूतेन तोयेन कुम्भः पुष्पफलान्वितैः । सफलैविधिना स्नातः सर्वकामाल्लभेत सः ॥२६॥ यदेवं कथितं पुण्यं मया ब्रह्ममुखाच्छ्र तम् । तत् समग्रं भवेत् तस्य अरण्येषूषरेषु च ॥२७॥
अरण्यारिण प्रवक्ष्यामि यथा चैवोषराणि च ।
सैन्धवं दण्डकारण्यं नैमिषं कुरूजाङ्गलम् ॥२८॥ उपलावृतमारण्यं जम्बूमार्गोऽथ पुष्करम् । हिमवासस्ततोऽरण्ये उत्तमः परिकीर्तितः ॥३६॥ नवस्वेतेष्वरण्येषु यस्तु प्राणान् परित्यजेत् । ब्रह्मलोकातिथिर्भूत्वा स याति परमं पदम् ॥३०॥ कणिको शिव चाख्येति कालिकागणयो शिवे । कालजरे महाकाले तुल्यञ्चैतेषु यत् फलम् ॥३१॥
इति श्री देवोपुराणे ग्रहणनद्यरण्ययोषर प्रशंसा नाम' चतु सप्ततितमोऽध्यायः।
१. अधिग्रहण नदी आरण्योषरप्रशंसा ग ।