SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ चतुः सप्ततितमोऽध्याय : मनुरुवाच । नित्यो विभुः स्थितः कालो अवस्था तस्य हेतुना । नैमित्तादि विशेषस्तु लोके पुण्यफलप्रदाः ॥१॥ संकान्त्याख्य पुराख्यातं पुण्यं धारा शुभा मुने । ग्रहणादिफलं पुंसां तीर्थभेदं शृणुष्व तत् ॥२॥ गङ्गाद्वारं कुरूक्षेत्रं नर्मदामरकण्टकम् । यमुनासङ्गमं पुण्यं वेत्रवती विपाशान्विता ॥३॥ सरयुः कौशिकी विन्ध्या गण्डकी च सरस्वती । चन्द्रभागा महापुण्या नदी गोदावरी तथा ॥४॥ कावेरी गोमती तापी देविका वरूणापरा । एताः पुण्यतमा नद्यो ग्रहणादिषु कोत्तिताः ॥५॥ अन्याश्च वहवः पुण्या अन्यकाले च कामदाः। अयने विषुवे ख्याती व्यतीपाते तथैव च । ॥६॥ दिनच्छिद्र अमावस्यां ग्रहाणां सङ्गमेषु च । सन्मोहेषु समाजेषु एकळे सप्तपञ्चधा॥७॥ एवंविधेषु पद्धेषु चन्द्र सर्वकलाभृते । तृतीयायाञ्च वैशाखे अष्टम्यां कुजवासरे ॥८॥ चतुर्दश्याञ्च कृष्णायां भौमाहे पितृतर्पणम् । कर्त्तव्यं सर्वकामानां पूरणाय नरोत्तमैः ॥६॥ अमावस्यान्तु संक्रान्तौ शिवादित्यन्तु यो नरः । यजते भक्तिमान् पूतः स पूतो भवते मुने ॥१०॥ कात्तिके ग्रहणं श्रेष्ठं गङ्गा यमुना सङ्गमे । मार्गेतु ग्रहणं पुण्यं देविकायां महामुने ॥११॥ पुष्येतु नर्मदा पुण्या माघे सन्निहिता शुभा । फाल्गुने वरूणा ख्याता चैत्रे पुण्या सरस्वती ॥१२॥ वैशाखे च महापुण्या चन्द्रभागा सरिद्वरा । ज्येष्ठे तु कौशिको पुण्या आषाढे भाविका नदी ॥१३॥ श्रावणो सिन्धुनामाच प्रोष्ठे श्रेष्ठा तु गण्डकी । अश्विने सरयुः श्रेष्ठा भूयः पुण्या तु नर्मदा ॥१४॥ गोदावरी महापुण्या चन्द्र राहुसमन्विते ॥१५॥ १. अन्त क।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy