________________
२७७
देवीपुराणम् मित्रर्भ मित्र सम्पन्नः पुष्टरुच्चाभिलाषिभिः । स्वक्षेत्रेस्वत्रिकोणेषु स्थितैः कार्य सदापुरम् ॥५३॥ दुर्ग दुर्गसमीपस्थं तस्य मित्रत्रिकोणजः । ग्रहैश्चन्द्रवलोपेतैः कार्य सवं शुभावहम् ॥५४॥ सौम्ये धर्मार्थकामानि शेषाः स्थान समागताः । अग्निदाहं भयं हानि रिपुपीडां सदारतिम् ॥५५॥ आग्नेयादि विजानीगत् पूर्वदुर्गो कृते पुरे। नन्दते पूर्वभागस्थे ईशे धर्मो विवर्द्धते ॥५६॥ सर्वकामानवाप्नोति पूर्वेशानोत्तरेण तु । सरित्पूर्वं वलोपेतैः शुभा याम्येन सारतः ॥५७॥ तडाग सवनं पश्चात् सौम्ये चेन्दीवरं दलम् । पूजयित्वा हरं दुर्गा ग्रहान् मातृ विनायकान् ॥
प्रासादोक्तविधानेन वलि .दत्वा कुरु पुरम् ॥८॥ इति श्रीदेवीपुराणे पुरदुर्गचिन्ताजातक्रिया नाम त्रिसप्ततितमोऽध्यायः ।